________________
किं बहुना ? तदा यज्जातं तत् किल वर्णयितुमशक्यमेव । दृष्ट्वैतत् स्वागतममृतलालोऽपि कामं प्रीतमानसो बभूव । तदा तेन मनोरथरूपेण मनसि भावितमपि यद् "मज्जीवनेऽपि यद्येतादृक् सुसमयः पुण्योदयात् समागच्छेत् तदा नूनमहं धन्यातिधन्यो भवेयम् ।" तदा केनेदं ज्ञातमासीत् यदनेन विलोकितः स्वप्नः सुचारुतया सफलीभविष्यति !
गुरूणां ज्येष्ठस्थितिकृते स्थिरता
एतादृशा महान्तः प्रभूतगुणगणसमलङ्कृताः पूज्यगुरुभगवन्तः स्वकीयनगरे चातुर्मास्यं करिष्यन्तीति विज्ञाय तन्नगरनिवासिनो नरनार्यः अपूर्वानन्दोल्लाससम्भृतमानसाः समभूवन् ।
चतुर्दशवर्षवया अमृतलालोऽपि स्वमित्रैः सार्धं गुरुभगवतां पार्श्वे गमनागमनादिकं तद्भक्ति-वैयावृत्त्यादिकं तत्सत्सङ्गं च करोति स्म । गुरुभगवतां सान्निध्यममृतलालाय भृशं रोचते स्म । अतः स भोजनादि कर्तुमेव गृहं गत्वा झटिति तत् सम्पाद्य च उपाश्रयमागच्छति स्म आदिनं च मुनीनां पार्श्व एव स उपविशति स्म । तदा हि गुरुभगवतां शिष्यसमुदये श्रीसुमतिविजय श्रीसिद्धिविजयश्रीदर्शनविजय-श्रीविज्ञानविजय- श्रीप्रभावविजय - श्रीउदयविजयाभिधाना मुनयो बाल्यात्तसंयमा निरन्तरं स्वाध्यायाध्ययनादिषु लीनचित्ता आसन् । शासनसम्राजोऽपि हि पूर्णयौवनमये समये वर्तमाना आसन् । पञ्चत्रिंशद्वर्षवयस्येव ते आचार्यपदवीं प्राप्य उत्तरोत्तरं वर्धमानप्रभावा अभवन् । ननु एतादृशां नैष्ठिकब्रह्मचर्यादि - गुणगरिष्ठानां प्रभावप्रसरे को नाम विकल्पः ? तस्यां चतुर्मास्यां ते पूज्यापादाः सूत्राधिकारे श्रीप्रज्ञापनासूत्रं भावनाधिकारे च श्रीजम्बूस्वामिचरित्रमधिकृत्य व्याख्यानं वाचयामासुः । सिंहगर्जनोद्धोषितं विषयवैविध्येन विशदवैदुष्येन च पूर्णपूर्णं तेषां प्रवचनामाकर्ण्य केषां मनसि न प्रादुर्भवेदहोभावः ? तदा अमृतलालोऽपि निजवयस्यैः सह नियतरूपेण व्याख्यानश्रवणं करोति स्म । यद्यपि प्रज्ञापनासूत्रस्य चरित्रकथा : श्रीमद्विजयामृतसूरीश्वराणां पुण्यजीवनलेशः
225