________________
अध्ययनम्
प्राथमिकधार्मिकसूत्राणामङ्कानां चाऽभ्यासः गृह एव सम्पन्न: । तदनु प्राय: अष्टवर्षवयसि छगनलाल - नामकस्याऽध्यापकस्य पाठशालायां तस्याऽध्ययनं प्रारब्धम् । अन्यबालकापेक्षया तेन बुद्धेस्तैक्ष्ण्यात् अभ्यासे स्थैर्याच्च स्तोकेनैव कालेन शोभनतरमध्ययनं कृतम् । व्यावहारिकाभ्यासेन सह धार्मिकाभ्यासोऽपि अवश्यंकर्तव्यः इत्याशयेन पित्रा जसराजाभिधधार्मिकशिक्षकपार्श्वे तस्य धार्मिकाभ्यासोऽपि कारितः । ततो तृतीयकक्ष्यां यावत् बोटादनगरेऽध्ययनं कृत्वा व्यवसायार्थं उगामेडीतिनामकं ग्रामं गतवता पित्रा सह सोऽपि गतवान् । तत्रैव चाऽग्रेतनमध्ययनं प्रारब्धम् । किन्तु तत्र तस्य मनो न लग्नमतो पुनरपि स बोटादनगरं प्रतिनिवृत्तः । तत्र च पुरातनपाठ शालायामेवाऽभ्यासः प्रारब्धः । षण्मासानन्तरं पाठशालायां गतवानपि मतिनैपुण्येन सर्वानपि पाठान् शीघ्रमेव हृदयसात् कृतवान् सः । बाल्ये ऽपि सत्यनिष्ठा
तदा तु प्राय: द्वादशवर्षीयः स पञ्चमकक्ष्यायां पठन्नासीत् । एकदा परीक्षाकालेऽध्यापकः प्रष्टव्यप्रश्नानामुत्तराणि स्वयमेव कृष्णपट्टिकायां लिखित्वा छात्रेभ्यो दर्शयन्नासीत् । एतद् दृष्ट्वा तस्य मनसि खेदः समुत्पन्नो यत् 'अरे ! किमिदमसमञ्जसमत्र विधीयते ? न ह्येतादृग् व्यवहारोऽध्यापकेन कर्तुमुचितः । परीक्षा तु विद्यार्थिनामभ्यासस्य परीक्षणार्थं विधीयते । तत्र यदि एवंरीत्योत्तराणि लिखित्वा दर्श्यन्ते तदा को लाभः परीक्षायाः ? तदात्वे तस्य तादृक् सामर्थ्यं नाऽऽसीत् यथा तत्प्रसङ्गं स प्रतिकुर्यात्, अतः स विषष्णः सञ्जातः । संसारं प्रति वैराग्यम्
अनित्यो हि संसारे संसारिणां स्नेहभावः । स तु स्वार्थमय एव । सति स्वार्थे तादृशं स्नेहभावं प्रदर्शयेत् यथा तेन सदृश: जगति
विविध हैम रचना समुच्चय
222