________________
माघशुक्लाष्टम्यां गुरुवासरे श्रीहेमचन्द्रगृहे दीवाळीमातुः पवित्रकुक्षौ शुभस्वप्न-दोहद-संसूचितस्वीयपुण्यप्राग्भारभाजनत्वः कोऽपि पुण्यशाली आत्मा प्रासूत । उदितो हि बालदिनकरो यथा स्वस्वर्णमय मयूखसमूहैः सर्वमपि पृथ्वीलोकं कुङ्कमवर्णाभिरक्तं करोति तथैवाऽनेन बालेन सर्वोऽपि निजपरिवारजनः प्रचुरतरस्नेहरागरक्तः कृतः ।
बालोऽयं भाविनि काले अमृतपदप्रापणाय प्रयतमानो भविष्यतीति विचार्यैव मातापित्रादिभिस्तस्याऽभिधानं 'अमृत' इति स्थापितम् ।
हेमचन्द्रस्य द्वौ भ्रातरौ आस्ताम् । एको लक्ष्मीचन्द्रः अपरश्च खीमचन्द्रः । द्वावपि श्रद्धालू धर्मपरायणौ श्रमण-श्रमणीभक्तिवैयावृत्त्यादौ दत्तचित्तौ चाऽऽस्ताम् । तत्राऽपि लक्ष्मीचन्द्रस्तु नीतौ प्रामाणिकतायां च लब्धप्रतिष्ठः समस्तेऽपि नगरे च विवादादीनां समाधानेषु सर्वेषामपि मान्यनिर्णय आसीत् ।
__ अमृतकुमारस्याऽन्ये गिरधरलालः, ताराचन्द्रः, शामजी, कस्तूरचन्द्र इति चत्वारो ज्येष्ठाः वीरचन्द्रनामा पञ्चमश्चेति पञ्च भ्रातर चम्पाभिधाना भगिनी चैकाऽऽसन् । स्वीयभ्रातृभिः सवयोभिश्चाऽन्यैः सार्द्धं क्रीडन् स द्वितीयाशशीव वृद्धिमवाप्नोत् ।
पूर्वजन्मनः संस्काराणां प्रभावः जनक-जनन्योरुत्तमैः संस्कारैः सह बाल्येऽपि अमृतप्रवृत्तौ पूर्वजन्मनः संस्काराणां प्रभावो दृश्यते स्म । तैः संस्कारैः स विनाऽपि परप्रेरणां शिशुवयस्यपि दया-दानादिक्रियासु रुचिवान् आसीत् । कमपि प्राणिनं दुःखपीडितं दृष्ट्वा तस्य हृदयं सहसा आर्दीभूतं भवति स्म । षट्पञ्चाशदत्तरैकोनविंशतिशतसंवत्सरीये दुष्काले तस्य चतुर्वर्षदेश्यस्याऽपि बुभुक्षाविह्वलान् जनान् दृष्ट्वा एतेभ्यः यदि किञ्चित् प्रदीयते तदा वरमित्यादयः शुभविचाराः मनसि प्रादुर्भवन्ति स्म । (अयं प्रसङ्गस्तैः सूरीश्वरैः क्वचित् वार्ताप्रसङ्गे स्वमुखेनैव कथित आसीत् ।) चरित्रकथा : श्रीमद्विजयामृतसूरीश्वराणां पुण्यजीवनलेशः
221