________________
कोऽपि नाऽन्यो भवेत् । स्वार्थे तु सृते स एव तं प्रत्यभिज्ञातुमपि नैवाऽभिलषेत् । यदि सर्वदा सर्वेषामखण्डस्नेहभावो वर्तेत तदा तीर्थकृतः चक्रवर्तिनश्च कथं तत्परित्यागं कुर्युः ? सन्ध्याभ्रराग इव क्षणविध्वंसिनी हि सांसारिकस्नेहस्य स्थितिः । क्षणे क्षणे तत्र परिवर्तनं भवति ।
इतः अमृतः स्वज्येष्ठभ्रातुर्गृहे कञ्चित् कालमुषित्वा पुनः उगामेडीग्रामे स्वजनक-जनन्योः पार्वे गतवान् सः । किन्तु तत्र तयोस्तादृशं वात्सल्यमननुभवन् स संसारान्निविण्णोऽभवत् । तन्मनसि तदैवंविधो विचारः समुत्पन्नो यथा 'अहो ! किमिदं दृश्यते मया ? ये स्वजनाः पूर्वं मयि भृशं स्नेहभावभृता आसन् त एवाऽधुना अपरिचिता इव व्यवहारं कुर्वन्ति !! तर्हि किं प्रयोजनमत्र निवासेन ? स्नेहभावविरहितैर्जनैः सार्धं निवासात्तु वरं गृहत्याग एव' इति ।
स्वकीयमित्रवर्गः सर्वेषामेव जीवने दृश्यते यत् तेषां जीवनं शोभनमशोभनं वा यज्जातं तत्र मित्रवर्गस्य सुमहन्निमित्तत्वम् ।
अमृतलालस्य तदा बोटादनगरे समशील-वयो-रसाश्चत्वारः सुहृद आसन् । एकः नरोत्तमदासः, द्वितीयः लवजी, तृतीयः गुलाबचन्दः चतुर्थश्च झवेरचन्द्रः । एते पञ्चाऽपि वैराग्यभावसंभृता गृहात् निर्गत्य दीक्षाग्रहणस्य योग्यमवसरं प्रतिपलं प्रतीक्षमाणा आसन् । यद्यपि सर्वेषां मातापित्रादयः स्वजना न कथमपि तेभ्य एतदर्थं सम्मतिं दातुं सज्जाः । तेषां सविधे संयमग्रहणस्य वार्ताकरणमपि दुर्लभम् । यदि कदाचित् दीक्षासम्बन्धि एकमक्षरमपि मुखान्निर्गच्छेत् तदा तेषामुपरि सर्वेऽपि रोषारुणचाक्षुषभावं भजेयुः । सर्वेऽपि स्वजना एतान् स्वविचारात् प्रच्यावयितुं विविधानुपायानुपयुञ्जन्ति स्म, तथाऽपि एते पञ्च तादृशदृढमनोबल-शालिन आसन् यत् स्वविचारात् मनागपि शिथिला नैव समभूवन् । यदा कदाऽपि समयः चरित्रकथा : श्रीमद्विजयामृतसूरीश्वराणां पुण्यजीवनलेशः
223