________________
गुणगुणिनोरभिन्नत्वं तु सर्वैरपि स्वीक्रियत एव । तदस्वीकारे तु पदे पदे अनेकविधा आपत्तिः आपद्येत ।
यतः प्रथमं तु घटादिपदार्थाः सर्वेषां प्रत्यक्षविषयाः सन्ति तत्रैव दोषः समापद्येत । कथम् ? चक्षुरिन्द्रियेण तु रूपमेव गृह्यते, न घटः, घटस्तु रूपाद् भिन्न एव । तदा ‘घटो मया ज्ञातः' इति व्यवहारो न भविष्यत्येव ।
व्यवहारस्तु भवत्येव, तस्मात् गुणगुणिनोरभिन्नत्वमेव स्वीकार्यम् न तु भिन्नत्वम् ।
ततश्च स्मरणादिगुणाः प्रत्यक्षगोचराः भवन्ति ते च विषयं विना नैव कदापि स्थातुं शक्नुवन्ति, यश्च तेषां विषयः स एवात्मा अतः गुणप्रत्यक्षे गुणिनः आत्मनश्चापि प्रत्यक्षत्वं सिद्धं भवति । अपि च ज्ञानादिगुणानाममूर्तत्वात् देहस्य च मूर्तत्वात् ज्ञानादयो गुणाः देहस्य नैव संभवन्ति किन्तु अमूर्तस्यात्मनः एव सम्भवन्ति । 'अनुमानेनात्मसिद्धिः
दण्डादिकरणानामधिष्ठाता कुंभकार इव इन्द्रियरूप करणानामपि कोऽपि अधिष्ठाता भवितुमर्हति । यश्चाधिष्ठाता स एवात्मा । नान्यः कोऽपि ।
अपरञ्च - इन्द्रियद्वारा विषयाणां ग्रहणं भवति अतस्तयोर्मध्ये ग्रहणग्राह्यसम्बन्धोऽस्ति, तत्र कोऽपि ग्राहकः भवितुमर्हति, तं विना ग्रहणं कः कुर्यात् । यः ग्राहकः सैवात्मा ।
अन्यच्च - देहादीनां भोक्तृत्वेनाऽपि आत्मनः सिद्धिर्भवति । यद् भोग्यमोदनादि वस्तु विद्यते तस्य भोक्ता पुरुषादिर्भवत्येव एवं देहाद्यपि भोग्यमस्ति अतस्तद्भोक्तृत्वेन आत्मनः सिद्धिर्जायते ।।
तथा च - जगति ये केचन संघातरूपाः पदार्थाः गेहादयो विद्यन्ते तस्य देवदत्तादिः स्वामिरूपेण भवत्येव । तथैव देहादिरपि संघातरूप एव अतस्तस्यापि कोऽपि स्वामी तु अवश्यमेव भवितुमर्हति
विविध हैम रचना समुच्चय
216