________________
यः स्वामी सैवात्मा । आत्मानं विना देहादेः स्वामी भोक्ता च नान्यः कोऽपि संभवति अतः आत्मैव स्वामितया सिद्ध्यति ।
अपि च - यस्य-विषये संशयो जायते स कुत्रापि विद्यमानः भवत्येव । अविद्यमानवस्तुनः कुत्रापि संशयो न भवत्येव । अस्माकं मनसि 'जीवोऽस्ति न वा' इति संशयो भवति, तेनापि आत्माऽस्ति इति सिद्ध्यति ।
'नासतो विद्यते भावो, नाभावो विद्यते सतः' इति वचनमेतदर्थसंसूचकम् । जगति ये केचन पदार्था विद्यन्ते तद्वाचकाः शब्दाः भवन्त्येव तथा ये शब्दाः विद्यन्ते तेषां पदार्था अपि भवन्त्येव । निषेधरूपेणात्मनः सिद्धिः ।
___ यस्य कस्यापि वस्तु केनाऽपि यदि निषेधः क्रियते, तर्हि तस्य वस्तुनः विद्यमानताऽवश्यं भवत्येव । यथा कोऽपि कथयति - अघटः, तदा तत्प्रतिपक्षी घटः कुत्रापि विद्यते एव । यदि केनापि जीवनिषेधः क्रियते तेनापि जीवस्य सत्ता निश्चीयते ।
देवदत्तो नास्तीति कथने देवत्तस्यात्र सत्ता न विद्यते किन्तु अन्यत्र कुत्रापि तस्य सत्ता विद्यते एवेति प्रतीयते ।
___ एवं प्रकारेण आत्मनः सिद्धौ सत्यां पुण्यपापकर्मपरलोकादीनामपि सिद्धिर्भवति । ___ यदि परलोकोऽस्ति, तदा तस्य प्राप्तिः स्वकृतशुभाशुभकर्मयोगेनैव भवति । शुभकर्मणा सद्गतिः, अशुभकर्मणा च दुर्गतिः जीवानां भवति । तर्हि पूर्वकृतप्रबलपुण्योदयेन प्राप्ते नरजन्मनि सर्वैरपि स्वात्मकल्याणेप्सुभिर्नरैः दानादिधर्मेषु निर्मलभावतो यतितव्यमेव । तेनैव तेषामिहजन्मनि सुखशान्तिसौभाग्यानि परलोके सद्गतिः परम्परया च मोक्षप्राप्तिः नितान्तं भविष्यन्ति । आत्मसिद्धेरयमेव हि लाभः । इति शम् ॥
आत्मपदार्थसिद्धि
217