________________
स्वसंवेदनप्रत्यक्षतः स्वसंविदितो भवत्येव । अन्यथा विज्ञानस्य ज्ञानरूपत्वं नैव घटते । अतः संशयरूपविज्ञानं यदि प्रत्यक्षमस्ति तर्हि जीवोऽपि प्रत्यक्षोऽस्त्येव ।
अपि च विनात्मानं यस्य कस्यापि जनस्य मनसि एवं भवति यत् - मयेदं कृतम्, इदमहं करोमि, इदमहं करिष्यामि, इति त्रैकालिकविषयः प्रत्ययो भवति, स कथं घटिष्यति । अत्र प्रत्ययः यत् अहंविषयकं ज्ञानं भवति तदेवात्मनः प्रत्यक्षसिद्धौ प्रमाणम् ।
एतज्ज्ञानं नैवानुमानम् यतस्तद् लिङ्गजन्यं न, नापि च आगमरूपप्रमाणजन्यं यतः आगमानभिज्ञानां जनानामपि एतादृश: अहंविषयकः अन्तर्मुखबोधो भवति ।
अन्यच्च आत्मनः अविद्यमानतायाम् 'अहम्' एतादृशं ज्ञानं कथं भवेत् । ज्ञानं कदापि निर्विषयं तु न भवत्येव । यदि अहंप्रत्ययविषयभूतात्मनः स्वीकारो न क्रियते तदा तज्ज्ञानं निर्विषयमेव भविष्यति । तत्तु न समीचीनम् । अतः 'अहम्' इत्याकारकं यज्ज्ञानं सर्वेषां भवत्येव तस्मात् तद्विषयतया आत्मनः स्वीकारोऽपि अवश्यमेव कर्तुं योग्यः ।
अपि च एतादृशः प्रत्ययः शरीरविषयकः नैव स्वीकर्तुं योग्यः यतः मृतावस्थायां तादृशप्रत्ययस्य अभावः सर्वेषां दृश्यत एव । आत्मनः प्रत्यक्षसिद्धौ अपरापि युक्तिरत्र निर्दिश्यते । यत्आत्मनः स्मरणादिविज्ञानरूपगुणाः प्रत्यक्षविषया भवन्ति । अत: आत्मा प्रत्यक्षोऽस्ति ।
गुणप्रत्यक्षत्वे गुणिनोऽपि प्रत्यक्षत्वं सर्वत्र निर्विवादं स्वीक्रियत
एव ।
रूपादयो घटस्य गुणाः ते प्रत्यक्षज्ञानविषया भवन्ति अत एव घटोऽपि प्रत्यक्ष इति व्यवहारो भवति । गुणगुणिनोरभिन्नत्वात् । आत्मपदार्थसिद्धि
215