________________
२. आत्मपदार्थसिद्धिः
- ले. पूज्यपादाचार्य श्रीविजयदेवसूरिश्वराणां शिष्यः विजयहेमचन्द्रसूरिः
दृश्यते सम्प्रति जगति यद् आस्तिकरूपेण स्वं मन्यमानोऽपि जनः नास्तिकवदेव व्यवहरति । तत्कारणन्तु एतदेव यद् तस्य मनसि आत्मरूपतत्त्वस्य निश्चितरूपेण प्रतीतिः नैवास्ति ।
यद्यात्मनः सिद्धिः सन्दिग्धा तर्हि तदाधारेण वतर्मानाः पुण्यपापपरलोकपुनर्भवादयोऽपि असन्त एव भवन्ति ।
अत आत्मसिद्धिः प्रारम्भे एव कर्तुं योग्या ।
अनेकशास्त्रेषु अस्योपरि भिन्नभिन्नरूपेण बह्व्यः चर्चा - विचारणाः कृताः विलोक्यन्ते । प्रभुमहावीरपरमात्मनः प्रथमगणधर श्रीमदिन्द्र भूतेरपि एष एव सन्देहः मनसि आसीत् ।
प्रभुवीरेण तन्मनः स्थितं सन्देहं कथयित्वा प्रत्यक्षादिप्रमाण द्वारा स सन्देहः दूरीकृतः ।
कतिपयजना एवं कथयन्ति यत् आत्मा नैव प्रत्यक्षः, स तु अनुमानादिप्रमाणद्वारैव साधयितुं शक्यः ।
भगवता कथितम् - आत्मा प्रत्यक्षगोचर: । कथम् ?
जगति एवमवलोक्यते यत् यस्य गुणाः प्रत्यक्षाः भवन्ति गुण्यपि प्रत्यक्ष इति मन्यते ।
' जीवोऽस्ति न वा' एतादृशसंशयरूपविज्ञान एव जीवोऽस्ति । स तु सर्वस्यैव प्रत्यक्षरूपो विद्यत एव । यः विज्ञानरूपो भवति स विविध हैम रचना समुच्चय
214