________________
यदीयं स्वाभाव्यं विशदविशदं सर्वशमिनां, प्रियप्रायं यस्मै स्पृहयति सदा प्राज्ञनिकरः । लये रत्नानाम् यो विलसति स धर्मध्वजधुरन्धरः सूरीशेन्द्रो जयतु च चिरं जीवतु शतम् ॥६॥ नव्यन्यायेऽप्रतिहतगतिस्तर्कशास्त्रेष्वधीती, जैनन्याये गहनगहने मन्दरः क्षीरसिन्धौ । तत्त्वार्थाध्या-पनकुशलता वाहिनी वाहिनीशः, सूरिः धीमान् जयतु जयतु श्रीमहान् हेमचन्द्रः ॥६॥ आचारेण विना यथा सुविशदं ज्ञानं न मुक्तिप्रदं, शास्त्रेषु प्रथितं तथा सुविदितं कर्मप्रधानः परम् । इत्यालोच्य विलुप्त-शास्त्र-निकरोद्धाराय यस्तत्परः, स श्रीमान् विबुधाग्रणीविजयतां श्री हेमचन्द्रो भवान् ॥८॥ श्रावं श्रावं वदनकमलाद्यस्य गीर्वाणवाणीव्याख्यानं तन्मधुरिमगुणागारमत्यादरेण । आचार्याख्यं पदमिदमहो दातुकामा अभूवन्, सूरिः सोऽयं प्रथितमहसा दीव्यतां हेमचन्द्रः ॥९॥ विद्धांसो बहवो भवन्ति भूवनेऽभूवन् भविष्यन्ति च, प्रायस्तेन सदैव कोमलहृदो नो सर्वज्ञलोकम्पृणाः । द्वित्राः सन्ति भवादृशाः किमथवा नो साम्प्रतं भूतले, निश्चेतुं नहि पार्यते स तु भवान् स्तोतुं कथं शक्यते ? ॥१०॥ आचार्येण पदेन सर्वविबुधश्लाध्येन लोकोत्तरं, तेजः ख्यापयताऽप्यनेन न भवानेकान्ततो भूष्यते । शास्त्रे भूरिकृतश्रमेण सततध्यानाऽग्निसन्दीपितैकान्तध्वान्तचयेन तत्र भवताप्येतत् पदं शोभते ॥११॥
हैमीयमप्रतिमसूत्रतंरङ्गरङ्गं,
शब्दानुशासनममुद्रमहासमुद्रः । पूज्योपाध्याय श्री हेमचन्द्रविजय गणिवराणां... पद्यावलिः
205