________________
तन्नामधामसुजुषो गुणवृद्धिलोला, रङ्का भवेयुरिह नाऽपि भवान्तरेषु । तस्माद् भजध्वमनिशं गुण-वृद्धिचन्दं, वक्ति प्रमाणपटु-माधवदास एषः ॥१७॥ पुण्यात्मनामुभयलोकयशोऽभिवृद्धि-वंशोऽपि वंशमुकुटो विलसत्प्रभावः । यद्वंशसिन्धुचलवीचिमहासुपोतः, श्रीनेमिसूरि-मुनिराजविनेयभानुः ॥१८॥ ऐदंयुगीनसमयेऽपि युगप्रधानः, संभाति शिष्यनिकरैविबुधाग्रगण्यैः । सोऽयं विभातु विदधातु शिवं समेषां, श्रीवृद्धिचन्द्रमुनिराड्विबुधद्रुकल्पः ॥१९॥ न्यायादिशास्त्रपरसिन्धुविलोडनाग-श्रीनन्दनाभिधमुनीशनिदेशतोऽयम् श्री वृद्धिचन्द्रशतकं ललितं व्यधत्त तद्भक्तिभावितहृदा विबुधेन केन ॥१०॥
॥ इति श्रीवृद्धिचन्द्र-शतकं समाप्तम् ॥
श्रीवृद्धिचन्द्र-शतकम्
203