________________
ज्ञाताऽस्य रूपस्य विहाय मोहं, हर्षेण दीक्षामुररीचकार । सेवां गुरूणां विनयेन कुर्वन्, बभ्राम भूमौ सह तैः सुखेन ॥८५॥ बुद्धेविकाशाद् विनयप्रभावा-च्छ्रीमद्गुरूणां मनसोऽभितोषात् । शब्दागमादींस्त्वरया प्रपठ्य, रेजे सुराचार्य इवाऽयमत्र ॥८६॥ अदेवयाजिनां पन्थाः, पाञ्चालेषु तदा महान् । प्रवर्धमानो वर्षासु, क्षुद्रगुल्मलता इव ॥८७॥ आसीत् सत्साधुतापेन, शुष्कीभूतो हि सत्वरम् । ह्रासः सत्यस्य कुत्राऽपि, न दृष्टो न च वा श्रुतः ॥८८॥ सदा प्रकाशमानोऽपि, मेघच्छन्नो हि भास्करः । जायते तद्वदत्राऽपि, सत्ये दृष्टान्त एषकः ॥८९॥ बुटेराजप्रतापाग्निः, प्रासरड्ढुण्ठकावनौ । दृश्यते यत्र कुत्राऽपि दग्धप्रायाऽधुनाऽपि सा ॥१०॥ तस्यैव पुण्यभाजोऽयं, शिष्यवर्यो धरातले । वृद्धिचन्द्राभिधानोऽधि-जातो जैनशिरोमणिः ॥११॥ सौराष्ट्रगुर्जरमरुप्रभृतिप्रदेशे, सद्देशनां विदधतो भ्रमतो हिताय । उन्मूल्य ढुण्ढकमतं सफलीबभूव, यात्राऽस्य सिद्धकुधरस्य मुनेः सुपुण्या ॥१२॥ श्रीमज्जिनेन्द्रमुखभाषितधर्मसेतुं, संस्थाप्य ढुण्ढजलधौ मतिरज्जुपुजैः । नाकं ह्यगात्क्षपितकर्ममलो मुनीन्द्रो, यं प्राणिनो गतभयाः सुतरां तरन्ति ॥१३॥ चन्द्रस्य चन्द्रत्वमतः प्रसिद्धि, यातं यतो नाम महाप्रशस्तिः । धर्मोऽपि जैनो जिनदेवनिष्ठः, एतर्हि संयाति प्रशस्तभावम् ॥१४॥ यत्कीर्तिचन्द्रः सततं रसायां, संभ्रम्य संभ्रम्य न शान्तिमेति । मन्ये स एवाऽम्बरमध्यभागे, संराजते चन्द्रमवाप्य शान्तः ॥१५॥ तं सर्वलोककमनीयमनल्पकान्ति, को वा भजेन्नहि च ना गुरुवृद्धिकामी चिन्तामणिं सकलसौख्यकरं विहाय, को लोष्टपिण्डमभिकामयते शरीरी ॥१६॥
202
विविध हैम रचना समुच्चय