________________
जगदिदं परिणामविलक्षणं, क्षपणवर्द्धनशीलमनुक्षणम् । भवति लाघवमत्र तदा यदा, प्रभुमुखागतधर्मपरम्परा ॥ ७४ ॥ जगति मानवरशिरपि क्वचित्, कुमतिकेसरिवक्त्रगतिग्रहः । भवति नैव तदा सुकृतानुगो, विपथमेति न चेद् विधियोगतः ॥७५॥ कुपथजालखगायितमानवान्, मतमतान्तरवेदि - सुपेशलाः । इह नयन्ति निजागमपद्धतिं, सदयमुग्धमनोहरणक्षमाः ॥७६॥ कुपथयायिजनोद्धृतिहेतवे, मुनिरसौ सुकुले जनिमाप्तवान् । इति च तस्य मुनेश्चरितामृतं शृणुत भव्यजना गुणमन्दिरम् ॥७७॥ विदितमेव सतां विषयेष्विह, सकलकामखनिर्ननु भारतम् । जनपदो न च तादृश ऐहिको, मनसि योऽभिलषेन्न च भारतम् ॥७८॥ देशेषु तेषु विलसन्महनीयकीर्तिर्यद्यस्ति कोऽपि जगतीतलमध्यवर्ती । पाञ्चाल एव विभवैः सुरराजधानीं, कौबेरिकामपि पुरीमधरीकरोति ॥ ७९ ॥ मालिन्यदोषरहिताः सरसीरुहौधै-र्वाप्यश्च तत्र परिपूर्णजलो विभान्ति । नद्योऽपि वीचिमुखराः सततप्रवाहाः, पीयूषवन्मधुरवारिवरा वहन्ति ॥८०॥ एवंविधे जनपदे जनताहिताय, जाताजनिर्जनिमतां विभवोदयाय । जैनागमप्रचुरबोधजुषां बुधानां, श्रीवृद्धिचन्द्रमुनिराजमहोदयानाम् ॥८१॥ लाहोर प्रान्तमध्ये विलसति सजलैका चिनावा नदी या, तीरे तस्या विभाति प्रमुदितमनुजा रामपुर्युत्तमैका । श्रीमद्भिर्योगिराजैरभिहतदुरितैस्तत्र लेभे सुजन्म, शून्याङ्केभेन्दु ( १८९० ) वर्षे हरिदिवसयुते पौषमासेऽच्छपक्षे ॥८२॥ यस्याऽस्ति तातो भुवि धर्मकीर्तिः, कृष्णाभिधाना जननी गुणाढ्या । तत्कुक्षिजातस्य शिशोः शिशुत्वे, वैराग्यवृत्तिः कथमत्र न स्यात् ? ॥८३॥
"
सुतस्य प्रेम्णा जनकेन भूरि, पाणिग्रहायैष मुदा न्ययोजि । पुण्यानुबन्धी भवसिन्धुवीचौ, कथं पतेदेष इति प्रभग्नः ? ॥८४॥
श्रीवृद्धिचन्द्र-शतकम्
201