________________
नकाश एको गगनाङ्गणस्थे, चन्द्रे परं सोऽपि च दूरवर्ती । अस्मिंस्तु वृद्धिर्बहुचन्द्रकान्ति - र्ज्यायांस्ततोऽयं सततं नमस्यः ॥५०॥ निष्पक्षबुद्धया निजहृद्यचित्ते, विचारयन्तु स्वयमत्र भव्याः । ज्ञात्वो भयोरन्तरमत्र धीराः, सेव्यः शिवायोत्तम वृद्धिचन्द्रः ॥ ५१ ॥ व्यूहः सुदृष्टो न मया गुणानामेकत्र पुंसि प्रबलप्रतापे । अस्मिन् मुनीन्द्रे सकला गुणौघा, मन्ये ततो नन्दति वृद्धिनाम ॥५२॥ भूरौ गभीरे सरितामधीशे, रत्नानि भूयांसि च कम्बुराशिः । हालाहलं तत्र च दोष एकः, क्षारं जलं नात्र मुनावणीयान् ॥५३॥ गिरौ गिरीशे गिरिशाधिवासे, कैलासनाम्ना प्रथिते पृथिव्याम् । शैत्यं प्रभूतं समताप्रधानः सर्वाङ्गिसेव्यो मुनि - वृद्धिचन्द्रः ॥५४॥
,
तुङ्गः सुमेरुः क्षितिमध्यवर्ती, संराजते यद्यपि रत्न - राज्या । दूरे स केषामपि नास्ति गम्यो, गम्यः परं साधुरयं सुखेन ॥५५॥ शीतो हिमांशू रविरुष्णरश्मि-र्दाही कृशानुश्चपला चलैव I साम्यं न केषां मुनिना त्वनेन तस्माद् गरीयो भज नाम वृद्धेः ॥५६॥ वृद्धेस्तु भेदो द्विविधो धरण्या - मुच्चैर्महीमोहकुटुम्बभाजः । एकः प्रपञ्चात्मतया विभाति, निर्वाणरुपस्त्वितरः प्रसिद्धः ॥५७॥ भेदे प्रपञ्चे जनता समस्ता, प्राणैः प्रयाणैर्नितरां निबद्धा । निर्वाणभेदे सुधियः कियन्तः, प्रायैः प्रयाणैः सुतरां सुलग्ना ॥ ५८ ॥ संसारवृद्धिर्नितरां कुवृद्धि र्यस्या भवाब्धौ जनतासु पातः । चिन्तामयी चित्तपयोजचान्द्री, त्याज्या ततः सा भवहानिकामैः ॥५९॥
मिथ्या प्रपञ्चे बहुल-प्रयासः, प्रायोऽत्र लोको नयनायने स्यात् । आरामरामाधनवर्द्धनेहः, सौधाभिलाषो ममता- निगूढः ॥६०॥
आपातरम्ये विषयाभिलाषे, कौटुम्बवृद्धी क्षणभङ्गरायाम् । चेतोऽभिलाषः सततं विशालः, पुंसां समेषावलोक्यतेऽत्र ॥ ६१ ॥ श्रीवृद्धिचन्द्र-शतकम्
199