________________
निदाधे जनानां पयोदाप्तितुल्यं, भयादौ सहायं सुरारामकल्पम् । भवव्याधिनाशेऽगदङ्कारसत्कं, भजध्वं भज़ध्वं क्षितौ नाम वृद्धः॥३९॥
(भुजङ्ग) सुशिष्टं सुमिष्टं महाक्लेशपिष्ट-मरिष्टादिकष्टापतल्लोकयष्टि । सुपुण्यप्रभावात् सुधादीर्घिकाभं, भजध्वं भजध्वं क्षितौ नाम वृद्धेः॥४०॥
(भुजङ्ग) भूयोऽपि भव्या वचनं मदीयं, सानन्दभावं शृणुतेति नम्रम् । यत्राऽस्ति वृद्धिः किल तत्र चन्द्रो, धन्यं ततः किं वदताऽत्र यूयम् ॥४१॥ काव्यं न तादृग् न च शास्त्रमाला, विद्वान्न तादृग् न च काव्यवेत्ता । प्राकाशि नो येन माहामहात्म्य-माकाशवेदी-स्थितशीतरश्मेः ॥४२॥ एवं धिया धीधनशस्तमानै-धंदावबोधे नयने पिधाय । इन्दोविमर्शो मनसा विधेयः, पश्चाद्रुचिस्तत्र सतां प्रमाणम् ॥४३॥ दृश्यो न धार्यः परमेष धार्य-स्तापी न, तापी बत तोषदायी । दूरे न चाऽऽरात् किल चैष चाऽऽरात्, क्षीणोऽस्ति नोऽयं तु सदा प्रकाशी ॥४४॥ गामी सदाऽसौ परमेष कार्ये, ताराधिपस्त्वेष तु सर्वनाथः । निशाविकाशी न दिवाविकाशी ह्ययं दिवारात्रि-विकाशमानः ॥४५॥ राजा द्विजानां न जनौघराजः, स्वामी रसानां न तु सर्वभूतेः । ज्योत्सना चकोरैः सततं सुपेया, कान्तिः समस्तैः सुखमत्र पेया ॥४६॥ धार्यः कथं सोऽत्र वियद्विहारी, धार्यः सुखेनैव धरा-विहारी । तुर्य्याष्टरन्ध्रेऽशुभपाकदायी, चेलानिवासी निखिलेष्टदाता ॥४७॥ पञ्चेषुबाणानलदेहदायी, तत्तापहारी हृदये विहारी । मेघाविकीर्णो भवतीह जातु, कर्माभिघातादमुको विशुद्धः ॥४८॥ दोषैरनेकैर्ग्रहसंविभागे, व्याप्तः शशाङ्कोऽम्बरमध्यवर्ती । भूभागराजी गुणराशिरेष, त्वन्वर्थसंज्ञां सफलीकरोति ॥४९॥
198
विविध हैम रचना समुच्चय