________________
३१. श्रीवृद्धिचन्द्र-शतकम्
_ - आचार्यविजयहेमचन्द्रसूरिः द्वारा प्राप्तम्
(अज्ञातकर्तृकम्) नत्वाऽऽत्मभक्त्याऽमल-वीरमूर्ति, वैराग्यकोशाभयराशिदात्रीम् । कुर्वे जनानां पर-मोदनाय, श्री-वृद्धिचन्द्रं शतकं सुरम्यम् ॥ असारेऽसीमसंसारे, प्रासन्मोह-विजृम्भिते । तादृशो नास्ति ना कश्चिद्, यो वृद्धि नाऽभिवाञ्छति ॥१॥ कीटादारभ्य ब्रह्माण्डावधि या प्राणिसन्ततिः । सर्वस्या: कामना वृद्धौ, महारम्भेण दृश्यते ॥२॥ कीर्तिवृद्धौ च केषाञ्चित्, केषाञ्चिन्मानवर्द्धने । हर्म्यवृद्धौ च केषाञ्चित्, समेषामर्थवर्द्धने ॥३॥ सुतारामगवादीनां, धान्यानामपि वर्द्धने । अशनाम्बरवृद्धौ च, जायते भुवि कामना ॥४॥ तस्माद् यातं महाभागाः, सर्वे वै वृद्धि-कामुकाः । वृद्धयर्थं समुखं प्राणा-नयन्तीह मानवाः ॥५॥ 194
विविध हैम रचना समुच्चय