________________
चारित्रश्रीहितवहवचःश्रद्धयाऽपास्तमोहा, तच्छिष्याऽभूदुपरतरतिलौकिकादर्थजालात् । पित्रोराज्ञां विनयवचसाऽऽसाद्य प्रीतान्तरात्मा, दीक्षाभारं लघुवयसि साऽवोढ वृद्धैरसह्यम् ॥१२८॥ चैत्रे कृष्णे सुखदसमये सद्वितीयाख्यतिथ्यां, द्वे साहस्त्रे तदधिकनवे वैक्रमे वत्सरे च । सेयं बाला विजयपदयुक्सूरिराजोदयस्य, दीक्षां प्रापत्करकमलतः सादडीग्राममध्ये ॥१२९॥ वेदं सौम्यं वपुरतिमृदु व व्रतं धैर्यलोपि, नूनं काचित् त्रिदिवपतिता देवबालेति लोकैः । तद्ग्रामस्थैर्मुदितहृदयैरुत्सवोऽकारि भूयान्, श्रीहेमाख्या तदनु च लताशब्दिता वन्दिताऽभूत् ॥१३०॥
मन्दाक्रान्ता०
१. गुजराती फा-व-२ । २. साध्वी श्री हेमलताश्रीजी ।
साध्वीश्री हेमलता श्री दीक्षावर्णनम्
193