________________
ज्येष्ठानुजौ साधुवरौ यदीयौ, गोविन्दनामा हरपूर्व एषः । बहूनि वर्षाणि निरीक्ष्य कायं, तीर्थे प्रतिष्ठाकृतिसङ्गतोऽभूत् ॥१२१॥
उपजातिः श्रीमत्सादडिसंघकारितविधिः शस्तः प्रतिष्ठोत्सवः, यं दृष्ट्वा मनुजा हि विस्मयमगुः प्रीतिं परां लेभिरे । लक्षन्द्रव्यमिह व्ययीकृतमलं भक्त्युल्लसन्मानसैः, किं किं वर्णनमातनोमि धिषणा मोहं समालम्बते ॥१२२॥
शार्दूलविक्रीडितम् अहो राणकमांगल्यं, विस्मर्तुत्व शक्नुमः । समन्नैव भवेद् भूयो, विशिष्टन्तु कुतो भवेत् ॥१२३॥
अनुष्टुप ॥ अथ प्रशस्तिः ॥
सद्दर्शनोदयकरो बुधनन्दनो यः, विज्ञानपद्मसविताऽमृतवाग्विलासः । लावण्यसिन्ध्वमृतरश्मिगुणं नुमस्तं, कस्तूरसेव्यमनिशं गुरुनेमिसूरिम् ॥१॥
तत्पट्टपुष्कररविर्मितमिष्टभाषी, शास्त्राब्धिमन्थनसमाश्रिततत्वरत्नः । वागीशतुल्यधिषणः कुशलः प्रबोधे, सूरीश्वरो विजयताममृताभिधानः ॥२॥
तच्छिष्यरत्नविबुधो रसिकः क्रियासु, विद्वद्वरो विविधशास्त्रविमर्शदक्षः । पन्न्यासदेवविजयः किल शान्तमूर्ति, संराजते भविकबोधविधौ प्रवीणः ॥३॥
190
विविध हैम रचना समुच्चय