________________
निजाधिकारे नृपचिह्नयुक्ता,
नियोजिताः कर्म मुदा प्रचक्रुः । यथा न कस्यापि वियुक्त आसीद्,
बालोऽथ वासो न धनं न धाम ॥११५॥ उपजातिः रक्षानियुक्तपुरुषा गुरुकार्यभारं,
वीक्ष्यापि कार्यकरणान्नविराममायन् । लोकोपकारिणी गुरावपि कृत्यजाते,
धीराः स्खलन्ति न कदापि विशुद्धभावाः ॥११६॥ वसन्त० सेवामण्डलसभ्यसूचकपटं सम्यक् स्ववस्त्रे दधद्, रात्रावह्नि च सेव्यसेवनरतो भूयान्जनोऽदृश्यत । सेवाकर्मपटुत्वदर्शनभवां श्रद्धां वहन्तो जनाः, स्वं स्वं वस्तु तदन्तिके गतभया विन्यस्य मोदं दधुः ॥११७॥ शार्दूल. इत्थं दीर्घतरे शुभे दशदिनव्याप्युत्सवे राणके, लक्षे वाऽपि ततोऽधिके नरचये रोगो यथा नाऽभवत् । मन्ये तीर्थवरस्य सैष महिमा निर्विघ्नमासीद् यतः, सर्वापद्विनिवारकस्य सविधे नाश्चर्यमेतन्महत् ॥११८॥
शार्दूलविक्रीडितम् शतं सहस्त्रं मनुजाः पुरेऽस्मिन्,
समागता भक्तिभृतोऽनुरागैः । महोत्सवं वीक्ष्य तमद्भुतञ्च,
सुखं दधानो निजगेहमीयुः ॥११९॥ उपेन्द्रवज्रा श्रेष्ठी कस्तूरभाई धनपतिविभवः श्रीभगूभाई सौम्यः, श्रेष्ठीशः केशुभाई विततनिजयशोविश्रुतो भूमिपीठे । भण्डारी तेजराजो विमलगुणगणो ग्रामपाथोधिरत्नं, एतेऽन्ये श्रेष्ठिवाः प्रवरमतिभृतः कार्यकर्तार आसन् ॥१२०॥
स्त्रग्धरा
श्रीकीर्तिकल्लोलकाव्यम्
189