________________
गुरौ वारे षष्ठयामुषसि शुभवाद्ये निनदति, कृतो द्वारोद्घाटः सकलजनताऽऽनन्दजनकः ।। जनाः श्रीघण्टानां प्रचुरतरनादे प्रसरति, समागत्याकार्षुः प्रणतिमतिभक्त्या जिनपतौ ॥१०९॥ शिखरिणी क्रियाकलापप्रतिपत्तिहेतो-रहम्मदाबादपुराद्य एते । समागताः कारितवन्त आरात्, दष्टवा क्रियां सर्वजनाः प्रसेदुः॥११०॥
उपजातिः सङ्गीताचार्यचर्यां प्रतिदिनविंहितां हारिणीन्तां महान्तः, सन्तः शृण्वन्त एते ययुरतिमुदिताः सर्व आलेख्यभावम् । भूयो भूयो जनानां जनयति परमां प्रीतिमुच्चैः प्रतीक्षा, सङ्गीतिर्या सभायां भवति गुणवतां गौरवख्यापिका सा ॥१११॥
स्त्रग्धरा कीर्तिङ्केचन केचनाऽऽदृतकला दृश्यम्परे गायनम्, भोज्यं भोजनपद्धतिं सुकृतिनः शंसन्त आसन् प्रियान् । हट्टे सर्वसमृद्धिभिः सुललिते यद् यद् यथा प्रार्थितम्, क्रय्यं तत्र मनोऽनुकूलमखिलं तत्तत्तथाऽऽसादितम् ॥११२॥
शार्दूलविक्रीडितम् तीर्थे तस्मिन्नुत्तमे राणकाख्ये,
संख्यातीता उत्सवन्द्रष्टकामाः । आगच्छन्वै. देशदेशान्तरेभ्यो,
मा वृद्धैर्बालवर्गः समेताः ॥११३॥ शालिनी तत्रागतानां सकलेष्टद्रव्यं,
न्यासीकृतं रक्षणदत्तचित्तैः । यथास्थितं रक्षितमाशुकाले, प्रत्यर्पितं नीतिविधानदक्षैः ॥११४॥
उपजातिः
188
विविध हैम रचना समुच्चय