________________
ततः परेधुर्विमले प्रभाते, श्रीसिद्धक्रार्चनमारभन्त । यस्मिन्कृते सिद्धयति सर्वमिष्टं, श्रीपालवच्छ्रद्दधतां नराणाम् ॥१०३॥
उपजातिः वीशस्थानकपूजनं शुभचतुर्दश्यां गुरोर्वासरे, सम्यक्त्वाद्युपलब्धिहेतु विधिवत्प्रापद्धि संपन्नताम् । प्रातः श्रीध्वजदण्डयोश्च कलशस्यासेचनं पूजनम्, शुक्रे जातममातिथौ निगदितं शास्त्रे यथा तत्तथा ॥१०४॥ शार्दूल० शुक्ले वह्नितिथौ शनौ परिकरे पूजाऽभवत्फाल्गुने, जाताऽष्टादशसंख्यया भगवतः शस्ताभिषेकक्रिया । अन्येद्यू रविवासरे प्रथमतश्चैत्याभिषेकः कृतः, मध्याह्ने जिनभक्तिरक्तहृदयैः पूजा वरा पाठिता ॥१०५॥
शार्दूलविक्रीडितम् बृहन्नन्द्यावर्तप्रथितशुभपूजाऽतिरुचिरा, तृतीयायान्तिथ्यां शशधरदिने मङ्गलमये । चतुर्थ्यां भौमेऽह्नि प्रवररथयात्राऽजनि मुदे, जनानां भव्यानामनुपमसुखाऽऽस्वादजनिका ॥१०६॥ शिखरिणी बुधे पञ्चभ्यां सा प्रथमसमये सूरिविहिता, प्रतिष्ठा सञ्जाता जिनपतिगृहे पूर्णफलदा । बृहच्छान्तिस्नानं विजयिनि मुहूर्ते समभवत्, क्रमेणेत्थं पूर्णो ह्ययमिहमहः सौख्यजनकः ॥१०७॥ शिखरिणी शुभे वीरसंवत्सरे संप्रपन्ने,
ग्रहय॑ब्धिनेत्रे तथा वैक्रमेऽब्दे । ग्रहाकाशखाक्ष्यन्विते फाल्गुनेऽभूत्,
प्रतिष्ठा सितेऽहेस्तिथौ चन्द्रपुत्रे ॥१०८॥ भुजङ्गप्रयातम्
श्रीकीर्तिकल्लोलकाव्यम्
187