________________
Cae
श्रीजिनशासनाष्टकम्
- आचार्यविजयहेमचन्द्रसूरिः श्रीतीर्थनाथैरपि पूजिताय, भव्यैनितान्तं किल कामिताय । सर्वातिगानन्दसुसाधनाय, नमो नमः श्रीजिनशासनाय ॥१॥ (उपजातिः) . सर्वात्मसौख्यातुलकारणाय, सर्वापदाम्भोनिधितारणाय । भव्यात्मदौर्गत्यनिवारणाय, नमो नमः श्रीजिनशासनाय ॥२॥
मुमुक्षुहंसावलिमानसाय, चिदादिरत्नव्रजरोहणाय । दयादिपुष्पोदयनन्दनाय, नमो नमः श्रीजिनशासनाय ॥३॥ सद्भावबीजाङ्कुरसेचनाय, दुष्कर्मधान्योच्चयपेषणाय । कुतीथिकव्यूहविभेदनाय, नमो नमः श्रीजिनशासनाय ॥४॥
श्रीजिनशासनाष्टकम्