________________
भव्याम्बुजोद्बोधनभास्कराय, धीमच्चकोरव्रजचन्दिराय । तत्त्वार्थिभृङ्गावलिवारिजाय, नमो नमः श्रीजिनशासनाय ॥५॥
भवाब्धिमज्जज्जनताप्लवाय, विकल्परेणूद्गतिमारुताय । मिथ्यात्वदाहारतिचन्दनाय, नमो नमः श्रीजिनशासनाय ॥६॥
रागोरगक्ष्वेडसुधात्मकाय, मुक्त्यास्पदप्रापणसद्रथाय । भागीरथीस्रोत इवाऽमलाय, नमो नमः श्रीजिनशासनाय ॥७॥
सर्वार्थसद्दर्शनदर्पणाय, समस्तपृथ्वीतलमण्डनाय । अनाद्यनन्ताय सदोदिताय, नमो नमः श्रीजिनशासनाय ॥८॥
इत्यष्टकं श्रीजिनशासनस्य, व्यरीरचद् भक्तिभरैः प्रणुन्नः । श्रीनेमिसूरेरमृतस्तदीयदेवस्य शिष्यो मुनिहेमचन्द्रः ॥९॥
विविध हैम रचना समुच्चय