________________
वसुनिधि( ९९)प्रमितस्वकनन्दनान्, 'कुरुत सङ्गर' मित्थमुपादिशत् ।
सकलसत्त्वहिताय जिनाय ते, भगवते ऋषभाय नमो नमः ॥५॥
स्वसुतबाहुबलिं तनयामुखाद्, 'गजत उत्तर वीर' वचस्त्विदम् ।
प्रहितवान् भगवान् य इनाय ते,
भगवते ऋषभाय नमो नमः ॥६॥ समसहस्रतपश्चरणार्जितं, विमलकेवलरत्नमुपाहरत् ।
स्वजननीकरयोर्य उपांशु ते भगवते ऋषभाय नमो नमः ॥७॥
भविकलोकचकोरहिमांशवे, दुरितसन्तमसौघखरांशवे !
शमवते भवतेऽनुपमाय ते, भगवते ऋषभाय नमो नमः ॥८॥
इति मया गुरुदेवपदाम्बुजभ्रमरहेमसुधाकरसूरिणा ।
प्रथमतीर्थपतिः स्तुतिगोचरो, विहित ईप्सितदानसुरद्रुमः ॥९॥
१. १ वर्ष
विविध हैम रचना समुच्चय