________________
१. 'भगवते ऋषभाय नमो नमः '
कृतजगज्जनमङ्गलशर्मणे, त्रिभुवनार्चितपादसरोरुहे ।
- आचार्यविजयहेमचन्द्रसूरिः
(द्रुतविलम्बितवृत्तम् )
प्रथमराड्-मुनि-तीर्थकराय ते, भगवते ऋषभाय नमो नमः ॥ १ ॥
भवति नैव यदङ्घ्रिपयोजयोविरचिता प्रणतिर्विफला कदा । नृपतिनाभिकुलाभरणाय ते, भगवते ऋषभाय नमो नमः ॥२॥
कचभरो हि निजांसलुठन् हरेविनतितः खलु येन न लुञ्चितः ।
'भगवते ऋषभाय नमो नमः'
विनतवत्सलतादिगुणाय ते, भगवते ऋषभाय नमो नमः ॥३॥
विनमिना नमिना च निरन्तरं, यदनघाङ्घ्रियुगं समुपासितं ।
सकलकामितकामघटाय ते, भगवते ऋषभाय नमो नमः ॥४॥
१. आ चरणनी पादपूर्तिरूप श्रीआदिजिनस्तुति ।
1