________________
भण्डारी-फूलचन्द्राख्यः, सन्तोकेंन्दुमुदैक्षत आनाय्य नथमलजी भोः, सत्वरं यद्विधीयताम् ॥५१॥
ऊनविंशे शततमे द्विपञ्चाशत्तमे गते । वर्षे सादडिसङ्खेन, कार्यभारः प्रदीयते ॥५२॥
संस्थाऽऽनन्दसमचिता शिवकरी कल्याणसंशोभिता, तस्यां श्रेष्ठिवराः सुबुद्धिनिधयस्संपत्तिसंभूषिताः । तीर्थत्राणविधौ निबद्धमतयो नित्यं रतास्सद्धितौ, श्राद्धानाम्मुकुटे मणेस्समरुचो नामानि तेषां शृणु ॥५३॥ शार्दूलविक्रीडितम्
अनुष्टुप्
कस्तूरः श्रेष्ठिवर्य्यो जनमतनिरतो लालभाई सुदक्षः, सम्पत्तौ किन्नरेशो मनसुख इति यः ख्यातनामा गुणाढ्यः । धर्मे श्रद्धा यदीया सततमविचला स प्रतापो वदान्यः, संस्थालंकारभूतास्सुमतिभृत इमेऽन्येऽभवन् श्राद्धवर्य्याः ॥५४॥
अनुरूपम्मनोरूपं, संस्थासंस्थितिकारणम् । पुष्णाति कारणङ्कार्य्य-महो राणकपालनम् ॥५५॥ सूरीशो नेमिसूरिर्जयति गुरुवरः स्थम्भनन्तीर्थराजं, कापर्डा -शेरिसादिप्रथितबहुतरन्तीर्थमेवङ्कदम्बम् । उच्चैरुन्नीय नुन्नः पुनरपि परया देवभक्त्याऽनुरागैर्मेदिन्यां दत्तदृष्टिः पुरमिदमनघं राणकं सञ्जगाम ॥५६॥
स्रग्धराच्छन्दः
श्रीकीर्तिकल्लोलकाव्यम्
अनुष्टुप्
१. सन्तोकचन्दजी बम्बोली, २. नथमलजी सजमलजी शा. हीराचन्दजी रूपचन्दजी, ३. श्री आणंदजी कल्याणजी पेढी, ४. नगरशेठ कस्तूरभाई मणीभाई, ५. शेठ मनसुखभाई भगुभाई, ६. शेठ लालभाई दलपतभाई, ७. शेठ प्रतापशीभाई मोहनभाई ।
179