________________
८९
कृत्रिमा दन्तिनो भान्ति, यथास्थानं निवेशिताः । उद्भवं सफलीकर्तुं, सम्प्राप्ता दिग्गजा इव ॥३५॥ अनुष्टप् आचार्य्यवर्यतपगच्छनभोदिनेशैः, श्रीसोमसुन्दर विचक्षणसूरिराजैः । साकञ्च पञ्चशतसाधुवरैस्सहर्ष, प्रातिष्ठिपन्वसुनवाब्धिसुधाकरेऽब्दे ॥३६॥ वसन्ततिलकाच्छन्दः नन्दाश्वषट्चन्द्रमितेऽथविद्वाञ्च्छ्रीदेवसूरिः कृतवान्प्रतिष्ठाम् । कालेन जीर्णस्य तथोत्तरस्यां, श्रीमूलनाथस्य पुरेव पश्चात् ॥३७॥
इन्द्रवज्राच्छन्दः निर्माता धरणाशाहो, मन्दिरं साध्वसाधु वा । नित्यमीक्षितुमक्षिभ्यां, मूर्तिभूतो विराजते ॥३८॥ चतुष्षष्टिसमाः पूर्वं, शिल्पिनं स्थाप्य योऽग्रतः । प्रतिकृत्य शिलां न्यस्य, “देपा" याहि विसृष्टवान् ॥३९॥ अनुष्टुप् नलिनिगुल्मविमानमिवाम्बरे, ददृशिवानिह स्वप्नदशान्तरे । तदिव दिव्यदशं समकारयत्, समदृशम्भवनञ्जगतीपतेः ॥४०॥
द्रुतविलम्बितं वृत्तम् स्वप्ने तद् दर्शयित्वा यदपि गतवती साभिमाना कुलश्रीर्देवी द्रव्यम्प्रभाते वदति पुनरहोऽदृश्यरूपाऽस्य भाग्यम् । प्राप्तानन्दः प्रणम्य खनति कृतिकृते यावदर्थं सुवर्णं, तेनेदङ्कृत्यमेतल्लसति दिवि गतो मोदतेऽक्ष्णः परस्तात्॥४१॥ स्रग्धरा एषा जनश्रुतिरलं प्रथिता पृथिव्याम्, अम्बाकृपा भवननिर्मितिहेतुरस्ति । . नांन्याङ्गतिकृतिमतो भवनं विलोक्य, वक्तुञ्च पारयति कोऽपि कृतज्ञबुद्धिः ॥४२॥ वसन्ततिलकांच्छन्दः
श्रीकीर्तिकल्लोलकाव्यम्
177