________________
मन्दिरेऽन्तः स्थितन्नाम, पय:फेनाभमुत्तमम् । नानाशिल्पकलोत्कृष्ट, रम्यम्परिकरम्महत् ॥२६॥ तदङ्के पृष्ठतोऽजत्रं, कारिण्यो नयनोत्सवम् । चतस्रो मूर्तयो दिक्षु-चतसृषु चकासति ॥२७॥ याभ्यो दिग्भ्यस्तु यो यायात्, ताभ्यो दिग्भ्यः पुरःस्थितम् श्रीजिनेशं स पश्येच्च, परमानन्ददायकम् ॥२८॥ अनुष्टुप् मूलं स्थानङ्खनित्वा तद्नुगतजलं वीक्ष्य लग्ने शुभेऽद्रेःखण्डम्पाथोधिमध्ये क्षिपति ननु यथा पद्मनालं व्यधत्त । नालस्याग्रे सुपद्मं तदुपरि कृतवान् मूलमूर्तीश्चतस्त्रस्ता द्रष्टुन्नैव शक्तः प्रभवति सकलोयोऽपि कोपीश्वरोऽपि ॥२९॥ एतत्पद्यन्तु मुक्तामणिगणखचितं स्वर्णपद्माद्विचित्रञ्, चित्रञ्चित्रन्न चित्रम्भवति यदि तथाऽलौकिकम्पद्ममेतत् । सद्योमूलेऽस्ति नालं तदुपरि भवनं यत्र सम्यक् विभान्ति, चत्वारः श्रीजिनेशा दुरितभयहरा याञ्जनाः संस्तुवन्ति ॥३०॥
स्रग्धरा वृत्तम् एतद्रूपमघौघदावदलने दावानलो जायते, मन्येऽमोघमिदञ्जनातिहरणे सद्योऽद्रिपुञ्जेऽशनिः । कृत्वाऽकर्म निषिद्धकर्मणि पटुः पापीयसामग्रणीर्दष्ट्वा रूपमिदम्प्रयाति सदनन्देवस्य यदुर्लभम् ॥३१॥ शार्दूलविक्रीडितम् बहुचित्रमनोहारि, दिविषद्भिरधिष्ठितम् । राजते चैत्यमत्यर्थं, महेन्द्रनिलयोपमम् ॥३२॥ अनुष्टुप् प्रभोरादिनाथस्य मुख्यस्य मूर्तेः, सदा शोभते वामपार्वे प्रसन्नः । मनः कामनापूरणे ख्यातकीर्ति-रधिष्ठायको राणकस्थः पुनातु ॥३३॥
भुजङ्गप्रयातम् पार्श्वनाथस्य मूर्तिर्या, शोभते पृष्ठतोऽनिशम् । फणासहस्रवाञ्छेषः, छत्राकारेण सेवते ॥३४॥
विविध हैम रचना समुच्चय
अनुष्टुप्
176