________________
चतुर्विंशतिधा भूमौ, रङ्गमण्डपमण्डलम् । राजन्ते स्तम्भखचिता नृत्यन्त्यः शालभञ्जिकाः ॥१९॥अनुष्टुप् वृत्तम् शालास्वन्तः शोभमाना विभान्ति,
शालामालादीपमालास्सदोऽन्तः । हाहाहाहा हास्यविस्फूर्जमानाः,
शालामाला स्वर्गसोपानमाला ॥२०॥ शालिनी रङ्गद्वारसुतोरणोत्तरतलस्थाने नभोमण्डलं, प्राप्तम्पत्रमिहास्ति कल्पकतरोश्चित्रेऽतिचित्रं स्फुटम् । श्रूयन्ते बहुधाऽत्र देवतरवः पूर्वे युगे भूमिषु, नेदानीन्दिविषद्भिरेवमुषितास्तेभ्योऽपतद्यद्धृतम् ॥२१॥
शार्दूलविक्रीडितम् दिशोऽवकाशेषु दिशोऽन्तराले,
प्रशान्तमुद्राः प्रविभान्ति देवाः । तदीयषट्सप्ततिदेवकुल्या,
आबद्धभावाः सततञ्जयन्ति ॥२२॥ उपजातिः यावानायतकाय एष विहितस्स्वच्छावकाशङ्गतस्तावानेव ततोऽन्तरे विनिहितो भूगर्भभूतो बिलः । कालेनाऽत्यधिकेन शङ्कितमनोवाक्कायकर्माशयैः, शङ्कास्थानतयाऽधुनाऽस्ति पिहितः पञ्चावशिष्टाः कृताः ॥२३॥ एतत्प्राङ्गणशोभिवृक्षनिकटादारभ्य दिक्षु क्रमात्, प्रासादा दिविगा विभूतिभरिताः सत्तोरणैः सत्कृताः । चत्वारो द्युतिमाप्नुवन्ति परमां राजाधिराजाज्ञया, राजानो विनिवेशिताः स्वसविधे सन्मण्डलेशा यथा ॥२४॥
शार्दूलविक्रीडितम् चतुर्मुखञ्चतुर्दार-ञ्चतुस्तलविभूषितम् । मन्दिरं राजते ग्राव्णः, स्वच्छस्फटिकसन्निभम् ॥२५॥
श्रीकीर्तिकल्लोलकाव्यम्
-175