________________
विपुलयशाश्रीप्रभृति-साध्व्योऽष्टा वेदयन्ति प्रणति ततीः । यत्सन्निभित्तवशतोऽस्माकं स्वाध्यायबरलाभः ॥३२॥ धामी चीमनभाई, दृढभक्तिः श्रावकः सुरेशश्च । महुवा समस्तसङ्घो, वन्दनमावेदयन्ति मुदा ॥३३॥ श्राद्धो बकुल-झवेरी, कान्ती-मङ्गल-महेन्द्र-श्राद्धवराः । प्रतिदिनमनर्घ्यलाभं, लान्ति मुदा सैव तोषकरः ॥३४॥ तेभ्यस्तथा च पत्तन-पुरसत्कश्रीसमस्तसङ्घाय । वाच्यो हि धर्मलाभोऽस्माकं कुशलादिवृत्तयुतः ॥३५॥ श्री नेमिनाथ चैत्ये, बिम्बस्थापनमहामहश्चलति । सम्प्रति तेन हि सर्वे, तदनुष्ठाने रताः सन्ति ॥३६॥ श्रावणकृष्णप्रतिपदि, प्रभु-प्रतिष्ठाविधि-गुरौभावी । अवलोकयितुं तं किल, भृशमुत्का मधुपुरीमाः ॥३७॥ या जनयित्री शासन-सम्राजो विजयधर्मसूरेश्च । विद्वीरचन्द्र प्रभृतेः, किन्न हि शस्याऽक्षितिः सेयम् ॥३८॥ यो भवकोटिशतार्जित-पुण्यौर्लब्धोऽस्ति साधनावसरः । मनसा वाचा क्रियया, तत्साफल्ये प्रयतितव्यम् ॥३९॥ पञ्चासरमुखभव्य-प्रासादानां हि दर्शनावसरे । स्मृतिमानीय विधत्ता-मस्मानपि तत्सुकृतकलितान् ॥४०॥ यत्किमपि स्यात्कार्यं, तन्निःसङ्कोचमत्र लिखितव्यम् । नाश्रयितव्यं धैर्य-मेतद्दल प्रतिवचोदाने ॥४१॥ वसुवह्निनभोऽक्षिसमे( सं. २०३८), श्रावणशुक्लेत्रयोदशीतिथ्याम् । चन्द्रदिने दलमेतत्, प्रीणयतु ज्ञान् मया लिखितम् ॥४२॥
॥ इति शम् ॥
152
विविध हैम रचना समुच्चय