________________
TAY २८. आ.श्री विजयप्रद्युम्नसूरिवरं ।
प्रतिलिखितं पत्रम् ।
__ (सं. २०३८, श्रावण सुद-१३) नानातरु कृतवप्रा, मालणसरितस्तटे विलसमाना । निजरुचि जित सुर भवना, नाम्नेयं मधुमती नगरी ॥१॥ जलनिधिरपि निजसलिलै-र्यत्पादौ क्षालयत्युभयसन्ध्यम् । साम्प्रतसमये सा किल, महुवेत्यभिधीयते लोकैः ॥२॥ फलकुसुमभारननै-वल्लिद्रुमसञ्चयैः सुरुचिराणि । उद्यानानि समन्ताद्, यां नगरीं भूषयन्ति भृशम् ॥३॥ यज्जाता नारिकेला, आप्यायन्ति स्ववारिणा मनुजान् । यद्भवसहकारफला-न्यास्वाद्य जनो भवति तृप्तः ॥४॥ काश्मीरेतिपुरी यां, सौराष्ट्रे सर्व एव कथयन्ति । यत्रस्थाः किल लोकाः, कामं धनधर्मसङ्कलिताः ॥५॥ श्रीनन्दिवर्धनेन, स्वामिभ्रात्रा विधापिता पूर्वम् । वीरविभोर्वरमूर्तिः, ख्याता भुवि जीवितस्वामी ॥६॥ जितरविविधुवृषरूपं, रूपं यस्यावलोक्य चारुतरम् । मन्यन्ते हृदि भविकाः, स्वाक्ष्णां साफल्यमतिवेलम् ॥७॥
આ. શ્રી વિજય હેમચન્દ્રસૂરિ મહારાજે મહુવાથી પાટણ, पं. प्रधुम्नवि४य म. 6५२ समेत पत्र - सं. २०३८, श्री. सु. १३
आ.श्री विजयप्रद्युम्नसूरिवरं प्रतिलिखितं पत्रम्
149