SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ वर्तेते तत्र राजेते, श्रीशान्तिः सम्भवप्रभुः । तापत्रितयसन्तप्त-भव्यशान्तिविधायकौ ॥२९॥ बोधिवल्लिपुरं भाति, प्रतीच्यां तावदन्तरे । तत्र चैत्यं महोत्तुङ्गं, राजते सम्भवप्रभोः ॥३०॥ इतश्च दिशि पूर्वस्यां, राजते पर्वतावलिः । तथा द्रुमौघसंकीर्ण-मुद्यानं सुमहत्तरम् ॥३१॥ पुरुषोत्तमपार्केऽभूत् प्रतिष्ठाया महोत्सवः । सम्पन्नोऽद्य महोत्साहपूर्वकं जिनबिम्बयोः ॥३२॥ पत्रोत्तरप्रदानेना-नुगृह्योऽयं जनः स्वकः । अस्मद्योग्या च निर्देश्या, कार्यसेवा कृपावता ॥३३॥ भवन्ति कृतपाप्मानः पुण्यवन्तो यदीक्षणात् । तगिरिराजयात्रायां स्मरणीया वयं सदा ॥३४॥ (वि० सं० २०२८, वर्षाकालः) 148 विविध हैम रचना समुच्चय
SR No.022616
Book TitleVividh Haim Rachna Samucchay
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy