________________
श्रीजिनशासनभासन-कृतोद्यमान् सन्ततं च तत्र रतान् । श्रीनन्दनसूरीशान्, स्थविरानप्यस्थविरचित्तान् ॥६॥ भक्त्या नतोत्तमाङ्गो, योजितकरकुड्मलः सरोमाञ्चः । पं. हेमचन्द्रविजयो, गुरुवरदेवाघ्रिपद्मालिः ॥७॥ वन्दनकोटिसनाथं, कुशलोदन्तेन संयुतं पत्रम् । श्रीमद्दोलतनाम्ना, वर्यान्नगरान्निवेदयति ॥८॥ वरिवर्ति सांप्रतं शं, तीर्थोद्धतिदत्तचित्तवृत्तीनाम् । शासनसम्राजां श्री-गुरुपादानां प्रसादेन ॥९॥ दलकमलं भवदीयं, सुखसातोदन्तबोधकं प्राप्तम् । तेनास्मदीयचेतः, प्रमोदभरभाजनं जातम् ॥१०॥ अत्रास्मद्गुरुवर्याः, संप्रति कुशलान्विता विराजन्ते । भव्यजनाञ्जिनमार्गे, प्रवर्तयन्तो गिरा शुभया ॥११॥ अध्ययनाध्यापनयोः संयोजितमानसो मुनिः स्वस्थः । प्रद्युम्नाऽऽख्यस्तपसः साधितवानोलिकां दशमीम् ॥१२॥ जनकमुनि_राख्यः, सत्यप्यवगण्य देहदुःस्थत्वम् । सद्वाचनमालादौ, सुखमास्ते व्यापृतस्वान्तः ॥१३॥ मुनिदर्शनविजयाख्यो, दीर्घविहारश्रमं विनोदयितुम् । किञ्चिद् विश्रम्य तदनु स्वाध्यायचिकीः ससुखमास्ते ॥१४॥ कर्मग्रन्थं तथा सूत्र-मुत्तराध्ययनं पठन् । कुरुते पुण्डरीकाख्यो, वर्धमानाभिधं तपः ॥१५॥ (अनुष्टुप्) कृताभिधानकोशोऽयं चन्द्रकीर्तिमुनिस्तथा । दृढीकरोति सत्तर्कसंस्कारान् भूरियत्नेन ॥१६॥ (अनुष्टुप्) विद्याधरोऽपि श्रीवर्ध-मानाख्यं तप आचरन् । तत्त्वार्थं संस्कृतं चापि, समधीते स्थिराशयः ॥१७॥ (अनुष्टुप् )
विविध हैम रचना समुच्चय
146