________________
२७. पूज्यंप्रति दलकमलम्- Va
आचार्यगुणसंकीर्तनम् । शास्त्रविशारद-न्यायवाचस्पति-कविरत्न-सिद्धान्तमार्तण्ड पूज्यापादाचार्य श्रीविजयनन्दनसूरीश्वरमहाराजान् प्रति दोलतनगरात् प्रहितं दलम् ॥ प्रेषक :- परमपूज्य-आचार्य-श्रीविजयदेवसूरीश्वराणां शिष्यः
__पंन्यास-श्री हेमचन्द्रविजयो मुनिः यदुपज्ञं धर्मनाव-मधिरुह्य तरन्ति भीमभवजलधिम् । भव्यास्तमर्चयेऽहं, जिनराजं राजराजिनतम् ॥१॥ नगरे दोलतसंज्ञे, विराजिनं प्रसृमरप्रभावाढयम् । श्रीशङ्केश्वरपार्वं, भक्त्या प्रणिपत्य पाश्र्वाच॑म् ॥२॥ लब्धिनिधानं ध्यात्वा, गणभृत् श्रीगौतमं सुरेन्द्रनतम् । 'श्रीनेमि'मन्त्रमेवं, स्मृत्वा सर्वेष्टकामघटम् ॥३॥ श्रीपादलिप्तनगरे शत्रुञ्जयतीर्थराजसांनिध्ये । साहित्यनिलयसौधे विराजमानान् विबुधवर्यान् ॥४॥ निज-परसमयाम्भोनिधि-मन्थनलब्धाद्वितीयचिद्रत्नान् । कृतिगणनायां प्रथमस्थानापन्नान् परमपूज्यान् ॥५॥ आ.विजयनन्दनसूरिस्मारकग्रन्थे प्रकाशितम् ।
पूज्यप्रति दलकमलम्-आचार्यगुणसंकीर्तनम्
145