SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ समुच्छ्रितो दारुमयो, मेरुमहीध्रोऽर्हतोऽभिषेकार्थम् । मण्डपमध्ये विहितो, यथा विदेहे. सुमेरुगिरिः ॥३१॥ ग्रहविधु (१९) दिनमितदीर्घ, विविध महापूजनैर्युतं स्फारम् । कर्तुं निर्णयमकरोन् - महोत्सवं श्री प्रतिष्ठायाः ॥३२॥ शासनसम्राट् समुदय-वर्तिनोऽन्येऽपि साधवो बहवः । साध्व्य इह महोत्सवाय, दूराद् विहृत्य सम्प्राप्ताः ॥३३॥ भावपुरस्थः श्रीमद्-विजयोदयसूरिराट् सुविज्ञप्तः । इच्छन्नागन्तुमपि, शरीरदौःस्थ्येनागतवान् ॥३४॥ निजमतिविभवपराजित-धिषणः श्री नन्दनाह्वसूरीशः । विजयामृतसूरीशः प्रासादस्योपदेष्टास्य ॥३५॥ श्रीमोतिप्रभसूरिः, सिद्धान्तपटुश्च रामसूरीशः । श्रीमेरुप्रभसूरिः, प्रभावकः वाग्मिधौरेयः ॥३६॥ श्री विजयदेवसूरिः, सौम्यप्रकृतिर्मदीयगुरुवर्यः । सूरि जयानन्दाऽऽख्यः सुतशिष्यः पुण्यविजयस्य ॥३७॥ धर्मधुरन्धरसूरि-एतच्चैत्योपदेशकार्यपरः । वाचक कीर्तेश्चन्द्रो, सूर्योदय-संज्ञपन्न्यासः ॥३८॥ पं. हेमचन्द्रविजयः, प्रायेणाऽन्येऽपि षष्टिसंङ्खयाकाः । इति शासनसम्राज्ञां, श्रमणाः समुपस्थिता बहवः ॥३९॥ निजशिष्यैराययौ च, सूरिः कैलाससागरः शान्तः । शुभनिश्रायामित्या-दीनामभवत्सम कार्यम् ॥४०॥ माधवसितपञ्चम्याः, मङ्गलगीतैर्मनोहरैर्वाद्यैः । कुम्भस्थापनपूर्वं, महोत्सवारम्भ इह जातः ॥४१॥ गजरथतुरगैर्कलितं, विविध-पुरायात-भूरिजनपूर्णम् । जलयात्रा-कल्याणक-वरघोटकषट्कमऽयमभूत् ॥४२॥ विविध हैम रचना समुच्चय 142
SR No.022616
Book TitleVividh Haim Rachna Samucchay
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy