________________
श्री केसरियावीर-परम्परानामकं महाचैत्यम् । भव्यतमं जननयना-नन्दकरं रच्यमानमभूत् ॥१९॥ पीताश्मनिर्मितं तत्, सुवर्णरचितमिव चैत्यमाशुशुभे । दर्श दर्शं प्रापु-र्न जातु तृप्तिं जनाक्षीणि ॥२०॥ यस्यास्ति शिल्पशास्त्रे, संज्ञा श्री पापनाशनेतिशुभा । रम्यं तन्मण्डपेन, चैत्यमजनि मेघनादेन ॥२१॥ शृङ्गैः पञ्चभिरम्बर-संस्पर्शि चतुस्तलं महच्चैत्यम् । सार्द्धद्विवर्षमात्र- कालेनाल्पीयसा यदभूत् ॥२२॥ नूनमदृश्येण तत्र, दिव्यप्रभावेण केनचिद्भाव्यम् । कथमन्यथेदृशं स्यान्-महत्तमं कार्यमनपायम् ॥२३॥ श्री केसरियामन्दिर-नाम्ना ख्यातोऽभवत्प्रदेशोऽयम् । केसरियानगरेत्ति - पुण्याभिधया हि सर्वत्र ॥२४॥ भोजनशाला-धर्म-शाले प्रवरेऽपि तत्र शुशुभाते । यात्रिकचेतोवपु-र्ददतु र्ये निर्वृतिं नितराम् ॥२५॥ सज्जीभूतेऽथ तस्मिन्, शिल्पकलानुत्तमे वरे चैत्ये । अञ्जनबिम्बस्थापन-महाय संयेतिरे मुख्याः ॥२६॥ रसनेत्राम्बरनयन (२०२६) प्रमिते-ऽब्दे राघकृष्णसप्तम्याम् । कर्तुं शुभप्रतिष्ठां, बुधदिवसे निर्णयो विहितः ॥२७॥ बृहतीं कलाकलयितां, श्रीसङ्घामन्त्रणार्थमतिरम्याम् । प्रतिनगरं सा प्रेषीत्, कुङ्कुमवरपत्रिका संस्था ॥२८॥ ध्वजतोरणादिकलितं, ततान पटमण्डपं सुविस्तीर्णम् । यत्र सहस्राणि जना, आसेरन् मुक्तसाङ्कीर्णाः ॥२९॥ बाणाक्षि (२५) मितां वामां-रचनामैतिह्यविषयसम्बद्धाम् । आसेचनिकामग्रे-रङ्गाजीवैररचयच्च ॥३०॥ श्री केसरिया-वीर-परम्परा-प्रासाद-प्रतिष्ठाप्रशस्तिः
141