________________
॥ ॐ ह्रीँ अहँ नमः ॥
॥ श्री आदिनाथाय नमः ॥ ॥ श्री गौतमस्वामिने नमः ॥
॥ नमो नमः श्री गुरु नेमिसूरये ॥
२६. श्री केसरिया - वीर-परम्पराप्रासाद-प्रतिष्ठाप्रशस्तिः
श्रेयः श्रेणि तनुतात् सततं श्री मारुदेव - जिनचन्द्रः । नवनवति - पूर्वकृत्वः, समवसृतः सिद्धशैले यः ॥ १ ॥ अर्हत्पदकजयमलं, प्रणिपत्याभीप्सितार्थदानचणम् । श्री केसरियाचैत्य - प्रशस्तिरिह लिख्यतेऽल्पधिया ॥ २ ॥ देशे भारतसंज्ञे, पुण्यतमे नैकतीर्थपरिकलिते । भूवलयविश्रुतोऽसौ नाम्ना विषयोऽस्ति सौराष्ट्रः ॥३॥
,
पूज्य श्री - पादलिप्तसूरीश्वर पादसेवनाभिरुचिः । साधितविद्यः श्राद्धो, नागार्जुननामको जज्ञे ॥४॥ गुरुनाम्नेदं नगरं, वासितवान् पादलिप्तसंज्ञं सः । जननिवहस्तं सम्प्रत्यभिधत्ते पालिताणेति ॥५॥ तत्पुरपरिसरवर्ती, शत्रुञ्जयशैलेशेखरो भाति । मुक्तिं यत्रानन्ता, जीवाः प्रतिकङ्करं प्राप्ताः ॥६॥
श्री केसरिया - वीर-परम्परा प्रासाद-प्रतिष्ठाप्रशस्तिः
139