________________
२५. प्रकीर्णकोपदेशकश्लोकाः । जिना मोक्षमार्गं दिशन्तश्च सिद्धा-गुणौधैर्युताः सूरयो भासयन्तः । मतं चाहतं वाचका बोधयन्तः, श्रुतं शङ्कराः साधवः शं विदध्युः ॥१॥ प्राङ्नैकवर्य्यभव पुण्यबलेन लब्ध्वा,
सम्पत्तिमत्र धनदेन समामनल्पाम् । दानं प्रमुक्त करमेव न चेद्धि दद्या
रक्षिस्यतीह वद दुर्गतिपाततः कः ॥२॥ वपुस्तेऽस्तरोगं वयश्चापि नव्यं, धनं तेऽस्ति पार्श्वे सुपर्वाद्रितुल्यम् । वचो मिष्टमच्छं विनीतं कुटुम्बं, न धर्मे मतिश्चेत् तदा व्यर्थमेव ॥३॥ मनोवाञ्छितं किं तवास्तीह विज्ञ !,
किमर्थं मुधा भ्राम्यसीतस्ततश्च । यदाऽऽप्यं हि तत् सन्निधौ तेऽस्ति सर्वं,
ततस्तत्र कार्यो नितान्तं प्रयत्नः ॥४॥ रे रे जनाः ! शान्तहृदा विचार्य, यूयं कुरुध्वं करणीयमत्र । यतोऽल्पमायु र्बहवोऽन्तराया, बहूनि कार्याणि करस्थितानि ॥५॥ प्रात हि यद् दृष्टिपथावतीर्णं, सायं हि तत् कर्हिचिदीक्ष्यते न । तस्माद्रसारं परिहाय कार्य, सारं विधेयं विबुधेन कृत्यम् ॥६॥
138
विविध हैम रचना समुच्चय