________________
२३. स्वर्णाक्षरीय कल्पसूत्र प्रशस्तिः। ॐ ही अहँ नमः । अहँ विजयते शश्वत्, अहँ वन्दे निरन्तरम् । अहँ दृष्टः शुभः पन्थाः, अहँ नित्यं नमोऽस्तु ते ॥ अहँ दुःखक्षयः शीघ्रं, अहँ रूपमनुत्तमम् । अहँ श्रीीं धृतिःकीर्तिः, अहँ आगच्छ मे मनः ॥ (मंगलश्लोको)
श्रेयः श्रेणिं स नित्यं वितरतु भगवान् वर्धमानो जिनेन्द्रो, यस्त्रैलोक्यं समस्तं करगतफलवत् केवलेनाददर्श । यत्पादाब्जे विननैः सुरपतिनिकरैश्चारु हंसायितं च, वाणी जीमूतवद्यो व्यपगतदुरितो वर्षयामास दिव्याम् ॥१॥
(स्त्रग्धरा) सर्वातिशायिनि यदीयमहिम्नि लोके,
कामं वितन्वति हतप्रहतप्रभावाः । याताः पलाय्य सुररत्नमुखा विदूरं,
शवेश्वराधिपतिरस्तु मुदे स पार्श्वः ॥२॥ (वसन्त०) रे कामकुम्भ सुररत्न सुरद्रुमाद्या
एतर्हि यान्तु ननु दूरभुवं भवन्तः । चिन्तामणौ स्फुरति पार्श्वजिने जगत्यां,
___ मन्येत मन्दमतिरप्यथ को नु युष्मान् ॥३॥ (वसन्त०) निखिले भुवनेऽपि यत्सम,
न हि रूपं प्रवरं विलोक्यते । सकलेप्सित कल्पमाश्रये,
प्रभुपार्वं जगवल्लभं सदा ॥४॥ (वैतालीयम्)
134
विविध हैम रचना समुच्चय