SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ सूरीणां चक्रवर्ती विरलगुणखनिः प्रौढसाम्राज्यशाली, साक्षात् वाचस्पति र्यो निजपरसमये नैकसद्ग्रन्थकर्ता । तीर्थोद्धारे च रक्तो मुनिगणमहितो बाल्यतो ब्रह्मचारी, पूज्य श्रीनेमिसूरिर्जगति विजयतां श्रीतपागच्छधुर्यः ॥५॥ ( स्त्रग्धरा० ) विहितनैकतमाद्भुतसत्कृतिविजयधर्मधुरन्धर सेवितः । कविवरोऽ समशास्त्रविशारदो, जयति सूरिवरो विजयामृतः ॥६॥ ( द्रुतविलम्बितम् ) यद्दर्शनेन भविनोऽसुखमाशु हित्वा, हर्ष प्रकर्षमतुलं तरसा लभन्ते । द्राक्षेव यो मधुरहृद्वरसौम्यमूर्तिः, शान्ताकृतिः स जयताद् गुरुदेवसूरिः ॥७॥ तदीय पट्टोदयभानुकल्पः, शब्दादिशास्त्रे कृत भूरियत्नः । गाम्भीर्य धैर्यादिगुणावलीढः, सूरिः सदा राजति हेमचन्द्रः ॥८॥ तस्यानुजन्मा प्रथमश्च शिष्यः पंन्यासवर्य्यो गुणरागपीनः । सार्वागमाभ्यासरतो ह्यजस्त्रं, प्रद्युम्ननामा जयतीह साधुः ॥९॥ ( इन्द्रवज्रा ) तच्छिष्यरत्नो मुनिराजहंसः, स्वाध्यायलीनो विनयेन पीनः । प्रसन्नचेतोवदनो नितान्तं, चारित्रमाराधयति प्रकामम् ॥१०॥ ( उपजातिः ) पूज्यांहि-हीरविजयः सरलात्मवृत्ति विस्मर्यते न हि स तातमुनिः कदापि । पत्नी - सुतद्वयसुताश्च जिनेन्द्रमार्गे, प्रस्थाप्य यः स्वयमपि प्रततान दीक्षाम् ॥ ११ ॥ ( वसन्त ) स्वर्णाक्षरीय कल्पसूत्र प्रशस्ति 135
SR No.022616
Book TitleVividh Haim Rachna Samucchay
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy