________________
२२. शरणाष्टकम् ।
अनाद्यनन्तविश्वेऽस्मि-नश्रान्तं भ्राम्यतो मम । अधुना केवलं ह्येकः, त्वमेव शरणं विभो ! ॥१॥ यत्र वा तत्र वा गत्वा, यं वा तं वा प्रणम्य च । यन्मयोपार्जितं पापं, तत्सर्वं क्षमयाम्यहम् ॥२॥ पिता माता तथा बन्धु-दयितो दयिताऽथवा । स्वामिन्नाऽलं समुद्धा, निमज्जन्तं भवाम्बुधौ ॥३॥ चेतस्त्वय्येव संसक्तं, रतिं न लभते मम । गृहे वा विपिने वाऽपि, पण्ये वोपवनेऽपि वा ॥४॥ कीदृशो मन्दभाग्योऽहं, सति नाथे भवादृशे । मुक्त्वा त्वच्चरणोपास्ति, विलसामि भवेऽनिशम् ॥५॥ हस्तमादाय मां नाथ !, त्वमिहाऽऽनीतवानसि । मार्गमध्ये निराधार-मथ मां किं विमुञ्चसि ? ॥६॥ गुणानां नाऽस्ति ते पार-मौदार्य चाऽप्यनुत्तरम् । गुणमेकं न किं मह्यं, तेभ्यो नाथ ! प्रयच्छसि ॥७॥ इदं सुनिश्चितं विद्धि, करुणाम्भोनिधे ! प्रभो !। त्वां मुक्त्वा कोटिकपटैः, श्रये देवं न चाऽऽपरम् ॥८॥
शरणाष्टकम्
133