________________
२१. विषयत्यागाष्टकम् । चतुरशीतिलक्षासु, योनिषु भ्राम्यता मया । यद् यदाचरितं पापं, तद्वक्तुं नैव पार्यते ॥१॥ असंवृतेन चित्तेन, तथाऽसंस्कृतया गिरा । दुष्प्रवृत्तेन कायेन, भृशं पापमुपार्जितम् ॥२॥ देवादिगतयस्तिस्रो, गतिमेकामिमां विना । बन्धाय पुण्यपापानां, केवलं, न क्षयाय तु ॥३॥ अद्य प्राप्तोऽस्ति संयोगो, दुर्लभो जन्मकोटिभिः । तं लब्ध्वा किल कुर्वेऽहं, विपुलां कर्मनिर्जराम् ॥४॥ शब्दादिविषये यत्नात्, प्रतिबन्धमपि त्यजे । यतस्ते सर्वदा नैक-स्वरूपाः सन्ति देहिनाम् ॥५॥ यद्रूपमेकदा दृष्ट्वा, नृत्येते स्माऽक्षिणी भृशम् । सम्मुखं चाऽऽगतं तन्न, रोचतेऽद्य निरीक्षितुम् ॥६॥ श्रोतुं भोक्तुं तथा स्प्रष्टुं, द्रष्टुमाघ्रातुमिच्छति । सदा नवं नवं चाऽयं, भुक्तपूर्वोऽप्यनन्तशः ॥७॥ करुणाब्धेऽथ नाथ ! त्वा-मद्य प्राप्य निरञ्जनम् । सर्वेभ्यो विषयेभ्योऽहं, भवेयं विरतो विभो ! ॥८॥
132
विविध हैम रचना समुच्चय