________________
२०. श्री सिद्धचक्र स्तोत्रम् । जगदुद्धारकृते यः, प्रवर्तयामास तीर्थमिदमनघम् । सुरराजसंस्तुतपदं, भक्त्याऽर्हन्तं हि तं प्रणुवे ॥१॥ ध्यानानलेन कर्मे-न्धनानि खलु यो हि भस्मसाच्चक्रे । अरुज-मजर-ममरपदं, प्राप्तं सिद्धं स्तुवेऽविरतम् ॥२॥ योऽमृतनिभया वाचा, भव्यानुपदिशति धर्ममश्रान्तम् । आचारपालनरतं, सूरिं तं सूरभं वन्दे ॥३॥ पाषाणसमो हि नरः, पूजां लभते यदीयसेवातः । पाठननिरतः पाठक-वर्योजयतात् सदा विश्वे ॥४॥ प्रविहाय देहममतां, नित्यं कुर्वन्ति ये तपो विविधम् । संयम-साधन-प्रवणान्, तान् साधून् भावतोऽभिनुवे ॥५॥ ज्ञानं तथा च चरणं, यत्सहितं चैव सार्थकं भवति । सर्वगुणमूलरूपं, तत्सद्दर्शनमहं वन्दे ॥६॥ कृत्याकृत्यं भक्ष्या-भक्ष्यादि येन वेद्यते निखिलम् । अज्ञानान्धदिनकरं, तत् सज्ज्ञानं स्तुवे सततम् ॥७॥ देवेन्द्र-चक्रवर्ति-प्रभृतिभ्यः शर्म यत्र नैकगुणम् । मुक्तिपदराजवर्त्म, चारित्रं तज्जगति जयतात् ॥८॥ निजमुक्तिं जानन्तो, विदधति तीर्थंकरा हि यन्नियतम् । कर्मक्षयैकहेतु, मम मनसि तत्तपो लसतात् ॥९॥ नवपदमयसिद्धचक्र-स्तोत्रं रचितं हि भक्तिभावभृता । गुरूदेवपादपङ्कज-मधुलिह मुनि हेमचन्द्रेण ॥१०॥ (रचना : वि.सं. २०६४, श्रा.सु. ५ बुधवार
महासुख भुवन, पार्ला (वेस्ट))
श्री सिद्धचक्र स्तोत्रम्
131