________________
126
(पञ्चमः सर्गः )
पुण्योदयपुरुषार्थ-द्वययोगात् प्राप्य संयमं वर्य्यम् । क्षुधितस्य मिष्टभोजन - मिव सोऽत्यन्तं मुदं प्रययौ ॥१॥ ग्रहणासेवनशिक्षां, गुरुसेवालीनमानसोऽधिययौ । संयमयोगान्निखिला - निव स हि विदधे पुराभ्यस्तान् ॥२॥
प्रथमां चातुर्मासीं निजगुरुणा सह सोऽकरोद्धि भावपुरे । विनयविवेकादिगुणै-र्जातश्च गुरोः कृपापात्रम् ॥३॥ सिद्धान्तचन्द्रिकाख्यं, यो व्याकरणं पपाठ यत्नेन । बुधमणिशङ्कर-रेवा- शङ्करबुधसन्निधौ तरसा ॥४॥ तद्बुद्धौ बुधकथिता, भावाः के तैलबिन्दुवत्प्रसृताः । परमां प्रीतिमुपागात्, तद् दृष्ट्वा शास्त्रिणां चित्तम् ॥५॥ प्राप्याऽतर्कितमपि यः, स्वगुरुनिदेशं ददावसंक्षुब्धः । पर्षद्यपि सुमहत्यां, व्याख्यानं कल्पसूत्रस्य ॥६॥ निजशिष्यो यदि कोऽपि, प्राज्ञः सिद्धान्तकौमुदीं हि पठेत् । रम्यं तदेति बाढं, गुरुरनवरतं विचचार हृदि ॥७॥
"
ज्ञात्वा तदभिप्रायं गुरोर्विनीतोऽवदत् स नेममुनिः । स्याद्यदि भवतामाज्ञा गुरो ! पठेयं च तां प्रेम्णा ॥८॥ प्रीतो गुरुरिति वचसा, तस्मै प्रददौ शुभाशिषो बह्वीः । को नहि तुष्येत्स्वमनो - नुसारिणीं गां निशम्य जनः ? ॥९॥ बुधभानुशङ्कराख्य-स्तत्राऽऽसीद् राजपण्डितो मुख्यः । तत्पार्श्वे शुभ दिवसे, प्रारेभे कौमुदीं स मुदा ॥१०॥
१. कं- जलम्, तस्मिन् ॥
1
विविध हैम रचना समुच्चय