________________
अतः पठेत् कोऽपि मुनिर्भवत्सु, तन्मे मनस्तयधिकं प्रसीदेत् । गुरूक्तमेतदूधृदि सम्प्रधार्य, पाठाय तस्याऽऽदृतनिश्चयोऽभूत् ॥३७॥
अन्वेषणात्तत्र पुरे समन्तादवापि भानुः किल शङ्करान्तः । प्राचार्य आसीत् स तु राजकीये,
विद्यालये विज्ञतमस्तदानीम् ॥३८॥ अथ प्रशस्ते दिवसे स नेमः, प्रारब्धवान् व्याकरणं ततो ज्ञात् । एकाग्रचित्तेन सदा पठन् स, मनीषिणश्चित्तमलं जिगाय ॥३९॥
॥ इति चतुर्थः सर्गः ॥
श्रीनेमिसौभाग्यमहाकाव्यम् (चतुर्थः सर्गः)
125