________________
गुरुस्तुरीये दिवसेऽथ वाग्मिनैकेन साकं मुनिना सभायाम् । स्वीयोत्तरीयं परिधाप्य नूतं, सम्प्रेषयामास गभीरवृत्तिः ॥३१॥
व्याख्यानमद्याऽस्ति मयाऽर्पणीयमेवं न जानन् परिषद्यगात् सः । व्याख्याय पूर्वं मुनिनाऽथ किञ्चि
दाज्ञापितो नेममुनिस्ततोऽभूत् ॥३२॥ आज्ञप्तमेतद् भवता मुने ! किमाख्यायतां सम्प्रति किं करिष्ये ?। मुनिर्जगौ वेद्मि परं न किञ्चद्गुर्वाज्ञयैवेदमकुर्वि कार्यम् ॥३३॥
गुरोर्निदेशं शिरसाऽवधार्य, व्याख्यातमेतेन सुचारुरीत्या । प्राशंसि लोकैः पुरतो गुरोस्तद्,
द्वारं शुभारम्भ इहाऽस्ति सिद्धेः ॥३४॥ अध्यैष्ट विज्ञान्मणिशङ्कराऽऽख्यात्, स चन्द्रिकाव्याकरणञ्च काव्यम् । न किन्तु तृप्तिं मतिराप तस्य, जिज्ञासमानस्य महामहार्थान् ॥३५॥
कथाप्रसङ्गे गुरुवृद्धिचन्द्रः, स्वीयान् जगाद श्रमणान् निशायाम् । न पाणिनीयं बहुलाच्च कालादधीतवान् व्याकरणं हि कोऽपि ॥३६॥
124
विविध हैम रचना समुच्चय