________________
इयेष सोऽभ्यासरतोऽपि चित्ते, व्याख्यानतो बोधयितुं मनुष्यान् । प्रागाभिधानं दरबारयुक्तं, पुरो निवेश्याऽभ्यसनं ततान ॥२५॥
उवाच चैनं मुनि नेमनामा, भद्राऽऽगते पर्वणि वार्षिकाऽऽढे । श्रोतुं न सम्यक् प्रभविष्यसि त्वं,
जनप्रवादेन हि कल्पसूत्रम् ॥२६॥ अतः स्थिरं चित्तमलं विधाय, मत्तोऽधुनाऽऽकर्णय कल्पसूत्रम् । कृत्वेति तं श्रावकमुत्सुकं स, व्याख्यातुमारब्ध सुमुक्तकण्ठम् ॥२७॥
कार्यप्रसङ्गेन ययौ कदाचिद्, रहःस्थले तत्र गुरुस्तदीयः । अलक्षितस्तेन निशम्य तस्य,
वाचः पटुत्वं नितरां तुतोष ॥२८॥ भव्याच्छभावाम्बुधिवृद्धिचन्द्रे, दुर्भेद्यकर्माद्रिविभेदवजे । समागते पर्वणि वार्षिके तान्, गुरुर्जगादाऽमरचन्द्रमुख्यान् ॥२९॥
भो भो ! दिने श्वो भवतां समक्षं, नेमोऽयमाख्यास्यति कल्पसूत्रम् । आश्चर्ययुक्तान् पुनराह वीक्ष्य, यथार्थमाख्यामि न धत्त शङ्काम् ॥३०॥
श्रीनेमिसौभाग्यमहाकाव्यम् (चतुर्थः सर्गः)
123