________________
सन्ध्याभ्ररागप्रतिमो हि लोके, निरीक्ष्यतेऽस्मिन् स्वजनानुरागः । विरूपतां याति प्रतिक्षणं यः, काऽऽस्था सतां तत्र विनाशशीले ? ॥१९॥
विमुच्य मोहं तत एव पूज्ये !, ऽनुज्ञापय द्राङ् मम संयमाय । शुभाशिषं चाऽर्पय मे प्रसद्य,
यतोऽद्यतः स्वस्थमना भवेयम् ॥२०॥ स्थिरत्वमित्यात्मभुवोऽवगत्य, स्नेहं जहौ तद्विषयं कथञ्चित् । दधौ च चित्ते परमां प्रसत्ति, सुतः स्वकीयोऽजनि संयतो यत् ॥२१॥
निजं पुरं प्रस्थितयोहि पित्रोः प्राप्याऽतिहर्ष स्तुतयोर्जनौधैः । स्वाध्यायमग्नो विनयेन नम्रः,
सत्प्रीतिपात्रं भवति स्म नेमिः ॥२२॥ स पाठकाच्छ्रीमणिशङ्कराऽऽख्यात्, प्रारब्धवान् व्याकरणादिपाठम् । जग्राह विद्यां प्रथमोदबिन्दु, महीव सच्छास्त्रविशुद्धबोधाम् ॥२३॥
ज्येष्ठस्थितिर्भावपुरे स्वकीयाऽऽद्याऽभूत् सह श्रीगुरुणा महौं । उपादिशत्तत्र गुरुर्महीयान् जैनागमं भव्यजनेभ्य इद्धम् ॥२४॥
122
विविध हैम रचना समुच्चय