________________
जिज्ञासमानं परिणाममस्य, तत्तातलक्ष्मीन्दुमिदं न्यगादीत् । नाऽऽपाततः किन्तु हृदो विरक्तिस्त्वदीयसूनोरिह नाऽस्ति शङ्का ॥१३॥
मोहाभिभूता जननी तदीया, तत्पार्श्वमागत्य भृशं रुरोद । बाण मां त्वज्जननीं विहाय, न युज्यते प्रव्रजितुं त्वयाऽङ्ग ! ॥१४॥
दत्वा जनिं त्वामपुषं स्वपोष - मेतावतीं प्रापितवत्यवस्थाम् । त्वन्मातरं तोषयसीह नो चेदेतादृशीं तत्तव साम्प्रतं किम् ? ॥१५॥
श्रुत्वेति मातुर्वचनं मनाङ् न, गृहीतमार्गादभवच्च्युतः सः 1 विभावयन् किन्तु भवस्वरूपं, तस्मिन् विशेषेण दृढादरोऽभूत् ॥१६॥
गिरा चचक्षे प्रियया प्रसूं स मा गाः शुचं प्राकृतमर्त्यवत् त्वम् । त्वया तु धर्मैकधियाऽधुनाऽहं, सत्संयमे सक्तमना विधेयः ||१७||
उत्पद्यते जन्तुरिहैक एव, देहं विहायैकक एव याति । ममाऽयमस्याऽहमिति प्रमादात् प्राप्नोति दुःखं हृदि मन्यमानः ॥१८॥
श्रीनेमिसौभाग्यमहाकाव्यम् (चतुर्थः सर्गः )
121