________________
सोवाच रे किं विहितं त्वयेदमज्ञोचितं कर्म विचक्षणेन ? । जानासि किं नो ह्यविचारितस्य, कार्यस्य जायेत कटुर्विपाकः ? ॥७॥
विचार्य तस्मादधुनाऽप्यमुष्मात्, त्वं साहसाद् वत्स ! विराममेहि । यथा भवेद् भाविनि ते न काले,
दुःखोद्भवः कारणमन्तरेण ॥८॥ नैयायिकस्येति निशम्य वाचं, जगाद नेमिश्रमणस्तदानीम् । संसारदुःखौघजिहीर्षयैषआप्तो मया संयम आत्मबुद्धया ॥९॥
त्यक्ष्यामि तन्नैव कदापि यावज्जीवं गृहीतं शुचिसंयमं तम् । विश्वे विशीर्येत न जातु रागो,
माञ्जिष्ठिकः सूर्यकरैः सहस्रैः ॥१०॥ आलम्ब्य तन्न्यायपथं यदिष्टं, स्यात्तद् यथेच्छं विदधातु देवः । अस्मादृशां स्वात्महितोद्यतानां, कस्माद्भयं पापमृते भवेऽस्मिन् ॥११॥
प्रगल्भमाकर्ण्य वचस्तदीयमुदीरितं निर्भयमित्युदात्तम् । विरक्तभावं हृदि निश्चिकाय, शुद्धं मुनेायकृदस्य विज्ञः ॥१२॥
120
विविध हैम रचना समुच्चय