________________
( चतुर्थः सर्गः )
अथ स्वहस्तादृतसाधुवेषो, वैराग्यरङ्गोल्लसितात्मवृत्तिः । श्रीवृद्धिचन्द्राह्वगुरोः प्रसादं, वाञ्छन्नुपेयाय तदंह्निमूले ॥१॥ ( उपजाति: )
प्रसाददृष्ट्या गुरुणा स दृष्टः, सम्भाषितश्चाऽपि सुहृद्यवाचा । तदीयसत्सव्यकराब्जनिर्यद्वासप्रचूर्णाञ्चितशीर्षकोऽभूत् ॥२॥
चारित्रमार्गे स्वसुतं विदित्वा, सम्प्रस्थितं चन्द्रयुतः स लक्ष्मीः । न्याय्यं विदन् तद्धृदयेन किन्तु, जज्ञे यियासुर्व्यवहारतो हि ॥३॥
इच्छन्न शक्नोति जनो विधातुं, करोति चेच्छारहितोऽपि कृत्यम् । यतः स विश्वेऽतुलितप्रभावो, राजेव भाति व्यवहार एव ॥४॥
तमेव संश्रित्य युतो हि लक्ष्मीचन्द्रः स्त्रिया भावपुरे समागात् । न न्याययुक्ता निजसूनुदीक्षेत्येवं जगौ न्यायगृहं प्रविश्य ॥५॥
न्यायैकनिष्ठो मगनाभिधानस्तत्राऽभवद् विश्वसनीयवृत्तः । श्रीनेमिपार्श्वे स्वयमभ्युपेत्य, परीक्षयामास बहुप्रकारैः ॥६॥
श्रीनेमिसौभाग्यमहाकाव्यम् (चतुर्थः सर्गः )
119